________________
RSHAS
टीका-मोक्षस्योक्तमार्ग क्लिष्टमवगत्य सरलमार्गमवजिगमिपुराह-मुनीशेत्यादि मुनीश ! ' हे मुनिराज !, 'केवल-है राजयोगात् '-केवलं राजयोगेन, 'श्रेयाश्रिये '-मोक्षसम्पत्तये, 'एपः'-पूर्वोक्ता, ' मुक्तेर्मार्गः '-मोक्षस्य पन्थाः, भवता 'साधूदितः'-सम्यक्तया कथितः, कथम्भूतो मुक्तेर्मार्गः ? 'जिनेन्द्रागमयुक्तिसिद्धः'-जिनेन्द्रस्याऽऽगमद्वारा तथा युक्तिद्वारा सिद्धि प्राप्तः, पुनः कथम्भूतः ? 'उत्सर्गनोत्सर्गहठाभिमुक्तः'-उत्सर्गापवादलक्षणैकान्तकर्त्तव्यतारूपहठेन रहितः, स्याद्वादाधिश्रित इत्यर्थः, परं'-परन्तु, ' ही 'ति चरणपूत्तौं, 'मे'-मम, 'स:'-एवम्भूतः, 'मुक्तेः '-मोक्षस्य, 'सरल'सुगमः, 'मार्गः'-अध्वा, 'निवेद्योऽस्ति'-कथयितव्योऽस्ति, 'यः'-मार्गः, 'सर्वमतानुयायी'-सर्वदर्शनानुकूल:, सर्वमतैरविरुद्ध इत्यर्थः, स्यात्तथा यः, 'श्रमं विना'-प्रयासमन्तरेण, 'द्रुतं'-शीघ्रम्, 'आत्मदृष्टयै'-आत्मज्ञानाय स्यात्, तथा यः, 'अध्यात्मविद्याधिगमैकहेतुः'-अध्यात्मज्ञानप्राप्तेरद्वितीयं कारणम् ।। २३-२४ ॥
मूलम्-अहो ! त्वदीया खल सूक्ष्मदृष्टि-यन्मक्षु मुक्त्यर्थमयं विचारः।
चित्ते समुत्पन्न इयानिदानी, मन्ये तदा तेऽत्र मनोऽस्ति मुक्त्यै ॥ २५ ॥ टीका-अस्योत्तरमाह-अहो ! इत्यादिना 'अहो !' इत्यामन्त्रणे, 'खल्वि 'ति निश्चये, ' त्वदीया'-त्वत्सम्बन्धिनी, तवेत्यर्थः, 'सूक्ष्मदृष्टिः '-सूक्ष्मपदार्थज्ञानशक्तिरस्ति, 'यत् '-यस्मात् कारणात् , ' मुक्त्यर्थं '-मुक्तये, मुक्तिनिमित्तमितिभावः, 'मक्षु'-शीघ्रमेव, 'इदानीम् '-अधुना, ' इयान्'-एतावान्, गंभीर इतिभावः, 'अयं'-पूर्वोक्तः, 'विचारः'-विमर्शः, तव 'चित्ते समुत्पन्नः'-मनस्यजायत, 'तदा'-तर्हि एवं सतीति यावत् अहम् ' मन्ये '-जानामि,
T ER