________________
-
-
-
-
AM
-
KS
है। यत् ' अत्र'-अस्मिन्संसारे, ' मुक्त्यै '-मुक्त्यर्थ, 'ते मनोऽस्ति'-तव चित्तं विद्यते ॥ २५ ॥
मूलम्-आकर्णय त्वं मयका निगद्य-मानं मुने ! मुक्तिपथं समर्थम् ।
सिद्धान्तवेदान्तरहस्यभूतं, गुरूपदेशादधिगम्य किश्चित् ॥ २६ ॥ टीका-प्रतिवचनविषयमाह-आकर्णयेत्यादिना 'मुने !' हे साधो !, 'गुरूपदेशात् '-गुरोरुपदेशेन, 'किमपि 'स्वल्पमित्यर्थः, 'अधिगम्य '-ज्ञात्वा, 'मयका'-मया, 'निगद्यमानं '-कथ्यमानं, 'मुक्तिपथं '-मुक्तेर्मार्ग, त्वम् 'आकर्णय '-शृणु, कथम्भूतं मुक्तिपथम् ? 'समर्थ'-शक्तम् , मुक्तिप्रापणक्षममिति यावत्, पुनः कथम्भूतं ? ' सिद्धान्तवेदान्तरहस्यभूत सिद्धान्तवेदान्तयोः सारभूतम् ॥ २६ ॥ मूलम्-मुक्ति समिच्छर्मनुजः पुरस्तात्, करोतु चित्ते स विचारमेवम् ।
आत्माह्ययं योगिभिरेष शुद्धो, बुद्धश्च मुक्तश्च निरजनश्च ॥ २७ ॥ इत्युच्यते तर्हि तु केन बद्धो, मुक्तस्त्वयं बद्ध्यत एष कस्मात् ।
ज्ञातं भ्रमेणेति यमूचुराद्याः, कर्मेति मोहेति भ्रमेत्यविद्या ॥ २८ ॥ १. ज्ञात्वा । २. मोहेत्यादाविति नैव विभक्त्यर्थस्योक्तत्वान्न विभक्तिर्यथा " श्रीरामेति जनार्दनेति जगतां नाथेति नारायणेत्या। नन्देति दयावरेति कमलाकान्तेति कृष्णेति वा । श्रीमन्त्राममहामृतान्धिलहरीकल्लोलमग्नं मुहुर्मुद्यन्तं गलदश्रुनेत्रमवश मां नाथ ॥ नित्यं कुरु १" इति श्रीभगवतः कवेरुक्ति पद्यावल्यां तथाऽत्राऽपि ।