________________
KASARASॐॐॐ
कति मायेति गुणेति दैवं, मिथ्येति चाज्ञानमितीतिशब्दैः।।
सद्योगिनोऽमून्निगदन्ति तज्ज्ञा, भ्रमं ह्यनेनैव निबद्ध आत्मा ॥ २९ ॥ टीका-मुक्तिपथमाह-मुक्तिमित्यादिना 'क'-विवक्षिते, 'मुक्ति समिच्छुः '-मोक्षाभिलाषी, 'मनुजः '-जनः, 'पुरस्तात् '-पूर्व, 'चित्ते'-मनसि, ' एवं '-वक्ष्यमाणम् , ' विचारं करोतु, '-विमर्श विदधातु, यत् 'ही' ति निश्चये, चरणपूतौ वा, 'अयं '-पूर्वोक्तः, प्रसिद्धो वा, 'आत्मा'-जीवः, ' योगिभिः '-योगाभ्यासकर्तृभिः, 'शुद्धः '-निर्मला, | इत्युच्यते, द्वौ चशब्दौ चरणपूत्तौं, 'बुद्धः '-ज्ञानी इत्युच्यते, 'मुक्तः'-दुःखरहितः इत्युच्यते, 'च'-पुनः, 'एषः'- 12 पूर्वोक्त आत्मा, 'निरञ्जनः'-निर्लेप इत्युच्यते, 'तर्हि '-तदा, 'तु' शब्दश्चरणपूत्तौं, 'मुक्तः'-दुःखरहितः सन्, 'अयम् -1 आत्मा, 'केन'-साधनेन, 'बद्धः'-बन्धन प्राप्तो भवति, तथा 'एप:'-आत्मा, 'कस्मात् बध्यते ?'-किं सकाशात् बन्धनं प्राप्यते ? ' इति '-अस्मिन् विचारे सति एवम् , ' ज्ञातं '-विदितम् भवति, यत् 'भ्रमेण'-भ्रान्त्या, बद्धो भवति, 'इति' शब्दो वाक्यपरिसमाप्तौ, 'यम् -श्रमम् , ' आद्याः'-पूर्वे महात्मानः, 'कर्मेति'-कर्मनाम्ना, सर्वत्रेतिशब्देनैव विभक्त्यर्थोद्योतः, 'मोहेति'-मोहनाम्ना, ' भ्रमेति'-भ्रमनाम्ना, अविद्येति '-अविद्यानाम्ना, 'कतैति'-कर्तृनाम्ना, 'गुणेति'-गुणनाम्ना, 'देवमिति '-देवनाम्ना, 'मिथ्येति'-मिथ्यानाम्ना, 'च'-पुनः, 'अज्ञानमिति'-अज्ञाननाम्ना, ' इति शब्दैः' इत्यादि शब्दैः, ऊचुः '-कथयन्ति स्म, अतः 'तज्ज्ञाः'-तत्त्वज्ञानिनः, 'सद्योगिनः '-श्रेष्ठयोगि
१. शब्दान् ।
कSSAGAR