________________
-
-
-
-
जनाः, 'अमृन् '-पूर्वोक्तानेव शब्दान् , कर्मादीनेवेत्यर्थः, 'भ्रमं निगदन्ति'-भ्रमनाम्ना कथयन्ति, 'ही 'ति निश्चये, न चरणपूत्तौं वा, ' अनेनैव'--पूर्वोक्तेन भ्रमेणैव, 'आत्मा'-जीवः, 'निबद्धः-बद्धः, बन्धन प्राप्तो भवति ।। २७-२९॥ मूलम्-भ्रमोऽत्र मिथ्यानिजकल्पनोत्थितो, येनैव बद्धो नलिनीशुको यथा।
बद्धः पुनर्मर्कटकोऽपि तद्वत्, तथैष आत्मा भ्रमतो निबद्धः ॥३०॥ १ भ्रमोऽत्रेति मिथ्या असत्या या निजकल्पना स्वमानसिकविकारस्तत उत्थित उत्पन्नो य एवविधो यो भ्रमो मिथ्याज्ञानमनात्मीयवस्तुन्यात्मीयवस्त्ववगमः स्त्रीपुत्रमित्रमातापितद्रव्यशरीरादिसहवर्तिवस्तुषु अननुगामित्वेनास्वीयत्वान्ममेदमिति मिथ्याशानं भ्रमः तेन संसारे शरीरे च मनोरमवस्तुपु रक्तमनोनिवर्त्तनं संसारे शरीरे च वर्तमाने दुर्वस्तुनि दुष्टमनोनिवृत्तिरिति वीतरागत्वेन रक्तद्विष्टमनस्त्वानापादनं सम्यग्ज्ञानं तद्विपरीतं ज्ञानं मिथ्याज्ञान स एव भ्रमः, अतस्मिस्तग्रहो भ्रमः यथा शुकग्रहणार्थं वृक्षोपरि चक्र स्थापयन्ति तच्चक्रकर्णिकायां च कारवेल्लकं स्थापयन्ति तत्र च ममेदं भक्ष्यमिति मिथ्याज्ञानेन भ्रमेण शुक आगत्य तिष्ठति तस्य स्थानतस्तञ्चकं स्वयमेव च भ्रमति, तभ्रमणात्तत्रस्थः शुकः केनाऽप्यगृहीतोऽपि भ्रमान्मन्यते यदहं केनाऽपि गृहीतो वा पाशे निपातितः । ततश्चक्रेण सह स्वयमपि भ्राम्यस्तचकं स्वेष्टमिवाऽऽगृहा खमवद्धमपि बद्धं मन्यमानः चूचूत्कारान् करोति । तद्वेलायामशवितो यदि उड्डीय याति तदा मुक्तः स्यात्, अन्यथा भ्रमेणाऽऽवद्धोऽपि तदग्राहकेण गृहीत्वा बध्यते इत्येवं नलिनीशुको यथा भ्रमेणैवं बध्यते पुनर्मर्कटकोऽप्यात्मानं भ्रमेणैव बन्धयति । यथा मर्कटग्राहकाः चणकभृतपानं स्थापयन्ति, तत्राऽऽहारार्थी मर्कटो करं क्षिप्त्वा चणकमुष्टिं बद्ध्वा ताशमेव करं कर्पति तदा तु समुष्टिः करो न निर्गच्छति तदाऽय जानाति अहमन्तरा केनचिद् बद्धः तदाऽवद्धोऽपि खवद्धमिति मन्यमानः चीचीत्कारान्कुर्वन् तद्वन्धकेन स बध्यते यदि तदा स्वबद्धां मुष्टिं छोटयित्वा याति तदाऽवद्धो भवति, परमयमपि स्वकीयमिथ्याभ्रमात् स्वं बन्धयति । एवमयमात्माऽपि अस्वीये
-
-
-
-