Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad

View full book text
Previous | Next

Page 299
________________ SECRESEGISSARKASERAILER कथयन्ति, विष्णूपासनेन मुक्तिर्भवतीति कथयन्तीतिभावः, 'किले 'ति स्ववार्तायाम् , 'ये ब्रह्मनिष्ठाः'-ब्रह्मणि विधौ निष्ठाभक्तिर्येषां ते तथा ब्रह्मोपासका इतिभावः, जनाः सन्ति ते 'तां'-मुक्तिं, 'ब्रह्मणः '-ब्रह्मसकाशात्, 'निगदन्ति'-ब्रह्मोपासनेन मुक्तिर्भवतीति कथयन्तीतिभावः, 'ये शैवाः '-शिवोपासकाः, जनाः सन्ति ते ताम् 'शिवात् '-शिवसकाशात् , 'निगदन्ति'-शिवोपासनेन मुक्तिर्भवतीति कथयन्तीतिभावः, 'तु'-पुनः, ये 'शक्ताः '-शत्युपासका जनाः, सन्ति ते ताम्, 'शक्तिकृताम् '-शक्तिदेवताविहिताम् , 'निगदन्ति '-शक्त्युपासनेन मुक्तिर्भवतीति कथयन्तीतिभावः, फलितमाह-तेपामित्यादिना यदा ' तेषाम् '-वैष्णवादीनाम् जनानाम्, मते 'च' शब्दश्वरणपूत्तौं, 'आत्मावगमः'-आत्मज्ञानम् , 'मुक्तेः'-मोक्षस्य, 'निदान'-कारणं, नास्ति, 'तदा'-तर्हि, भवतः, 'अयं'-वक्ष्यमाणः, 'निर्णयः'-निश्चया, 'नास्ति'न विद्यते, ' अथ '-शब्दश्वरणपूत्तौं, यत् मुक्तिः, 'आत्मबोधादेव'-आत्मज्ञानादेव, 'जनिता'-उत्पन्ना भवति, 'ततःतर्हि, भवता ' एवम् '-उक्तरीत्या, 'विनिश्चयः'-निर्णयः, ' किं क्रियते ?'-कथं विधीयते ॥१-३॥ । मूलम्-सत्यं यदेते किल लोकरूढि-रूढास्तु विष्णवादिकभिन्नवीक्षिणः। परन्तु तत्त्वार्थत एष आत्मै-वार्थोऽभिवाच्यो ननु विष्णुमुख्यैः ॥४॥ ____टीका-अथोत्तरमाह सत्यमित्यादिना ' सत्यमिति'-एतत्तव कथनं सत्यमस्तीत्यर्थः, यत् 'किले 'ति निश्चये, 'तु' शब्दश्चरणपूत्तौं, 'एते '-पूर्वोक्ता वैष्णवादयः, 'लोकरूढिरूढाः '-लोकशैलीप्राप्ताः सन्तः, 'विष्णवादिकभिन्नवीक्षिणः१. परमार्थतः । -

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333