________________
SECRESEGISSARKASERAILER
कथयन्ति, विष्णूपासनेन मुक्तिर्भवतीति कथयन्तीतिभावः, 'किले 'ति स्ववार्तायाम् , 'ये ब्रह्मनिष्ठाः'-ब्रह्मणि विधौ निष्ठाभक्तिर्येषां ते तथा ब्रह्मोपासका इतिभावः, जनाः सन्ति ते 'तां'-मुक्तिं, 'ब्रह्मणः '-ब्रह्मसकाशात्, 'निगदन्ति'-ब्रह्मोपासनेन मुक्तिर्भवतीति कथयन्तीतिभावः, 'ये शैवाः '-शिवोपासकाः, जनाः सन्ति ते ताम् 'शिवात् '-शिवसकाशात् , 'निगदन्ति'-शिवोपासनेन मुक्तिर्भवतीति कथयन्तीतिभावः, 'तु'-पुनः, ये 'शक्ताः '-शत्युपासका जनाः, सन्ति ते ताम्, 'शक्तिकृताम् '-शक्तिदेवताविहिताम् , 'निगदन्ति '-शक्त्युपासनेन मुक्तिर्भवतीति कथयन्तीतिभावः, फलितमाह-तेपामित्यादिना यदा ' तेषाम् '-वैष्णवादीनाम् जनानाम्, मते 'च' शब्दश्वरणपूत्तौं, 'आत्मावगमः'-आत्मज्ञानम् , 'मुक्तेः'-मोक्षस्य, 'निदान'-कारणं, नास्ति, 'तदा'-तर्हि, भवतः, 'अयं'-वक्ष्यमाणः, 'निर्णयः'-निश्चया, 'नास्ति'न विद्यते, ' अथ '-शब्दश्वरणपूत्तौं, यत् मुक्तिः, 'आत्मबोधादेव'-आत्मज्ञानादेव, 'जनिता'-उत्पन्ना भवति, 'ततःतर्हि, भवता ' एवम् '-उक्तरीत्या, 'विनिश्चयः'-निर्णयः, ' किं क्रियते ?'-कथं विधीयते ॥१-३॥ । मूलम्-सत्यं यदेते किल लोकरूढि-रूढास्तु विष्णवादिकभिन्नवीक्षिणः।
परन्तु तत्त्वार्थत एष आत्मै-वार्थोऽभिवाच्यो ननु विष्णुमुख्यैः ॥४॥ ____टीका-अथोत्तरमाह सत्यमित्यादिना ' सत्यमिति'-एतत्तव कथनं सत्यमस्तीत्यर्थः, यत् 'किले 'ति निश्चये, 'तु' शब्दश्चरणपूत्तौं, 'एते '-पूर्वोक्ता वैष्णवादयः, 'लोकरूढिरूढाः '-लोकशैलीप्राप्ताः सन्तः, 'विष्णवादिकभिन्नवीक्षिणः१. परमार्थतः ।
-