Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad

View full book text
Previous | Next

Page 296
________________ ' मस्तके ' - शिरसि, 'असौ ' - पक्षी, छायां करोति, अवेदने हेतुमाह-मतमित्यादिना यतः ' द्वयोः ' - पक्षिजनयोः, 'मतम् ' - अभीष्टम् नास्ति, ' तथापि ' - तदपि, ' तच्छाय महात्मतोदयात् ' - तस्य पक्षिणम् छायाया महत्त्वस्योदयेन, 'दरिद्रतापहा' - दारिद्र्यनाशिनी, ' अधीशतोदेति ' - स्वामित्वमुदयते, अथवा ' अजानतोरपि ' - अबुध्यमानयोरपि, ' एवम् ' -उक्तरीत्या, ' सिद्धि : ' - कार्यसफलता भवति, तर्हि, ' ईशितुः ' - खामिनः, भगवत इति यावत्, ' स्मृतेः ' - स्मरणेन, पापं ' कथं न याति ' - कुतो नाऽपगच्छति, उक्तप्रकारेण स्वामिनामजापेनाऽपि पापमपयात्येवेतिभावः ।। २५--२७ ॥ मूलम् - अस्मिन्गते सर्वत आत्मशुद्धिः, सत्याममुष्यां परमात्मबोधः । जातेऽत्र नो कश्चन कर्मबन्धः कर्मप्रणाशे किल मोक्षलक्ष्मीः ॥ २८ ॥ अस्यां हि सत्यां स्थितिरक्षया स्याद्, अनन्तविज्ञानमनन्तदृष्टिः । एकरवभावत्वमनन्तवीर्य, जागर्त्ति सज्ज्योतिरनन्तसौख्यम् ॥ २९ ॥ टीका - नामस्मृत्या पापेऽपगते फलमाह - अस्मिन्नित्यादिना ' अस्मिन् ' - पूर्वोक्ते पापे, 'गते'- नष्टे सति, 'सर्वतः ' - सर्वप्रकारेण, ' आत्मशुद्धिः ' - आत्मनो नैर्मल्यं भवति, 'अमुष्याम् सत्याम् ' - आत्मशुद्धौ जातायाम्, 'परमात्मबोध: 'परमात्मनो ज्ञानम् भवति, ' अत्र ' - अस्मिन् परमात्मबोधे, 'जाते' - समुत्पन्ने, ' कश्चन ' - कोऽपि, ' कर्मबन्धः ' - कर्मणां योग:, 'नो' - नैव, भवति, 'किले 'ति निश्चयेन, ' कर्मप्रणाशे ' - कर्मणां नाशे सति, 'मोक्षलक्ष्मीः ' - मुक्तिसम्पत्, १ पापे । २. आत्मशुद्धौ । ३. परमात्मबोधे । ४. मोक्षलक्ष्म्यां ।

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333