________________
' मस्तके ' - शिरसि, 'असौ ' - पक्षी, छायां करोति, अवेदने हेतुमाह-मतमित्यादिना यतः ' द्वयोः ' - पक्षिजनयोः, 'मतम् ' - अभीष्टम् नास्ति, ' तथापि ' - तदपि, ' तच्छाय महात्मतोदयात् ' - तस्य पक्षिणम् छायाया महत्त्वस्योदयेन, 'दरिद्रतापहा' - दारिद्र्यनाशिनी, ' अधीशतोदेति ' - स्वामित्वमुदयते, अथवा ' अजानतोरपि ' - अबुध्यमानयोरपि, ' एवम् ' -उक्तरीत्या, ' सिद्धि : ' - कार्यसफलता भवति, तर्हि, ' ईशितुः ' - खामिनः, भगवत इति यावत्, ' स्मृतेः ' - स्मरणेन, पापं ' कथं न याति ' - कुतो नाऽपगच्छति, उक्तप्रकारेण स्वामिनामजापेनाऽपि पापमपयात्येवेतिभावः ।। २५--२७ ॥
मूलम् - अस्मिन्गते सर्वत आत्मशुद्धिः, सत्याममुष्यां परमात्मबोधः ।
जातेऽत्र नो कश्चन कर्मबन्धः कर्मप्रणाशे किल मोक्षलक्ष्मीः ॥ २८ ॥ अस्यां हि सत्यां स्थितिरक्षया स्याद्, अनन्तविज्ञानमनन्तदृष्टिः । एकरवभावत्वमनन्तवीर्य, जागर्त्ति सज्ज्योतिरनन्तसौख्यम् ॥ २९ ॥
टीका - नामस्मृत्या पापेऽपगते फलमाह - अस्मिन्नित्यादिना ' अस्मिन् ' - पूर्वोक्ते पापे, 'गते'- नष्टे सति, 'सर्वतः ' - सर्वप्रकारेण, ' आत्मशुद्धिः ' - आत्मनो नैर्मल्यं भवति, 'अमुष्याम् सत्याम् ' - आत्मशुद्धौ जातायाम्, 'परमात्मबोध: 'परमात्मनो ज्ञानम् भवति, ' अत्र ' - अस्मिन् परमात्मबोधे, 'जाते' - समुत्पन्ने, ' कश्चन ' - कोऽपि, ' कर्मबन्धः ' - कर्मणां योग:, 'नो' - नैव, भवति, 'किले 'ति निश्चयेन, ' कर्मप्रणाशे ' - कर्मणां नाशे सति, 'मोक्षलक्ष्मीः ' - मुक्तिसम्पत्,
१ पापे । २. आत्मशुद्धौ । ३. परमात्मबोधे । ४. मोक्षलक्ष्म्यां ।