Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad

View full book text
Previous | Next

Page 282
________________ क्तम् वचनम् , 'वरं प्रोक्तम् '-सुष्टु कथितम् भवता, 'परं'-परन्तु, ' यथा'-येन प्रकारेण, ' इह-अस्मिन्संसारे, 'चिन्तामणिमुख्यम् -चिन्तामण्यादिकम् वस्तु, 'अर्चकानाम्'-पूजकानाम् जनानाम् , स्वपूजनकर्तृणामितिभावः, 'सद्यः'शीघ्र, 'फलत्येव '-निश्चयेन फलति, 'तथा'-तेन प्रकारेण, 'अत्र'-अस्मिन्संसारे, 'असौ'-प्रसिद्धा, 'पारमेशी प्रतिमा'-परमेश्वरसम्बन्धिनी मूर्तिः, 'अर्चिता'-पूजिता सती, 'नो फलेत् '-नो फलति, चिन्तामण्यादिवत् सद्यः फलदात्री न भवतीतिभावः ॥१॥ मूलम्-सत्यं त्वदुक्तं परमत्र साधो !, संस्थाप्य चेतः स्थिरमित्यवेहि । यवस्तुनो योस्ति फलस्य काल-स्तत्रैव तद्वस्तु फलत्यशङ्कम् ॥ २॥ टीका-अस्योत्तरमाह-सत्यमित्यादिना 'हे साधो!'-हे मुने !, 'त्वदुक्तं'-तव कथनं, 'सत्यम्'-यथार्थमस्ति, परं'परन्तु, 'अत्र'-अस्मिन् विषये, 'चेतः स्थिर संस्थाप्यम् '-मानसं स्वस्थं कृत्वा, 'इति'-एतत् , वक्ष्यमाणमित्यर्थः, त्वम् 'अवेहि '-जानीहि, 'यद्वस्तुनः'-पदार्थस्य या, 'फलस्य कालोऽस्ति'-विपाकस्य समयो भवति, 'तत्रैव'-तस्मिन्नेव काले, 'तत् '- पूर्वोक्तं वस्तु, ' अशङ्कम् '-शङ्कारहितम् , यथा स्यात्तथा निःसन्देहमितिभावः, 'फलति'-फलदायि भवति॥२॥ मूलम् यथाहि गर्भो नवभिस्तु मासैः, पूर्णर्लभेत् सूतिमिहैव नार्वाक् । तथा पुनः काश्चन मन्त्रविद्याः, लक्षण कोट्याथ फलन्ति जापैः ॥३॥ ____टीका-अत्रोदाहरणमाह-यथाहीत्यादिना ' यथाही ' ति तद्यथेत्यर्थः, 'तु' शब्दश्चरणपूत्तौं, 'गर्भः'-भ्रूणः, 'नव -

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333