Book Title: Jain Tattavsara Granth Satik
Author(s): Surchandra Gani
Publisher: Varddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad

View full book text
Previous | Next

Page 288
________________ Vाऊलमल तिर्न साध्वितिभावः, फलितमाह-तदित्यादिना 'भोः' इत्यामन्त्रणे, 'तत्'-तस्मात् कारणात् , ' एतत् '-पूर्वोक्तम् पुण्य- जमित्यर्थः, फलम् ' अन्यजन्मे '-भवान्तरे, जन्मशब्दस्याकारान्तत्वमपि केपांचिन्मतेऽस्ति, 'एति'-प्राप्नोति ॥१२॥ मूलम्-अनेकधोत्पन्नमनेकशो यथो-पभुज्यमानं बहुकालमात्रम् ।। नक्षीयते पुण्यफलं तदेतत्, प्रायोऽन्यजन्मन्युदयं समेति ॥ १३ ॥ टीका-उदाहरणपूर्वकं फलितं स्पष्टयति-अनेकेत्यादिना ' यथा'-येन प्रकारेण, 'अनेकप्रकारैः'-अनेकपरिश्रमैरितिभावः, 'उत्पन्नम्'-जातम् , तथा ' अनेकशः'-अनेकवारान् , ' उपभुज्यमानम् '-भोग नीयमानम् वस्तु, 'बहुकालमानं'बहुकालयुक्तम् भवति, 'तत्'-तथा, 'एतत् '-पूर्वोक्तम् , 'पुण्यफलं '-पुण्योत्पन्नं फलम् , 'न क्षीयते'-न नश्यति, किन्तु 'प्रायः'-बहुधा, ' अन्यजन्मनि '-परभवे, 'उदयं समेति'-उदयं प्रामोति, उदयत इतिभावः ॥ १३ ॥ मूलम्-तथा च यत् किञ्चिदुदुग्रंपुण्यं, साक्षादिहैवार्पयति फलानि । यथाहि दिव्ये परिशुद्ध्यति क्षणाद्, यः कश्चिदत्राऽस्ति जनेषु सूती ॥ १४ ॥ टीका-अत्युग्रपुण्यफलविषयमाह-तथा चेत्यादिना 'तथा चे' ति समुच्चये, यत् 'किञ्चित् '-किमपि, 'उग्रपुण्यम्'अत्युग्रपुण्यम् भवति, तत् ' इहैव '-अस्मिन्नेव संसारे, 'साक्षात् '-प्रत्यक्षत्वेन, फलानि ' अर्पयति'-ददाति, अस्योदाहरणमाह-यथाहीत्यादिना 'यथा ही' ति तद्यथेत्यर्थः, यः कश्चित् '-कोऽपि, 'अत्र'-अस्मिन् संसारे, 'जनेषु' १. वहुकालमेव स्वार्थे मात्रप्रत्ययः । २. अत्युग्र । ३. सत्यवादी ।

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333