________________
क्तम् वचनम् , 'वरं प्रोक्तम् '-सुष्टु कथितम् भवता, 'परं'-परन्तु, ' यथा'-येन प्रकारेण, ' इह-अस्मिन्संसारे, 'चिन्तामणिमुख्यम् -चिन्तामण्यादिकम् वस्तु, 'अर्चकानाम्'-पूजकानाम् जनानाम् , स्वपूजनकर्तृणामितिभावः, 'सद्यः'शीघ्र, 'फलत्येव '-निश्चयेन फलति, 'तथा'-तेन प्रकारेण, 'अत्र'-अस्मिन्संसारे, 'असौ'-प्रसिद्धा, 'पारमेशी प्रतिमा'-परमेश्वरसम्बन्धिनी मूर्तिः, 'अर्चिता'-पूजिता सती, 'नो फलेत् '-नो फलति, चिन्तामण्यादिवत् सद्यः फलदात्री न भवतीतिभावः ॥१॥ मूलम्-सत्यं त्वदुक्तं परमत्र साधो !, संस्थाप्य चेतः स्थिरमित्यवेहि ।
यवस्तुनो योस्ति फलस्य काल-स्तत्रैव तद्वस्तु फलत्यशङ्कम् ॥ २॥ टीका-अस्योत्तरमाह-सत्यमित्यादिना 'हे साधो!'-हे मुने !, 'त्वदुक्तं'-तव कथनं, 'सत्यम्'-यथार्थमस्ति, परं'परन्तु, 'अत्र'-अस्मिन् विषये, 'चेतः स्थिर संस्थाप्यम् '-मानसं स्वस्थं कृत्वा, 'इति'-एतत् , वक्ष्यमाणमित्यर्थः, त्वम् 'अवेहि '-जानीहि, 'यद्वस्तुनः'-पदार्थस्य या, 'फलस्य कालोऽस्ति'-विपाकस्य समयो भवति, 'तत्रैव'-तस्मिन्नेव काले, 'तत् '- पूर्वोक्तं वस्तु, ' अशङ्कम् '-शङ्कारहितम् , यथा स्यात्तथा निःसन्देहमितिभावः, 'फलति'-फलदायि भवति॥२॥ मूलम् यथाहि गर्भो नवभिस्तु मासैः, पूर्णर्लभेत् सूतिमिहैव नार्वाक् ।
तथा पुनः काश्चन मन्त्रविद्याः, लक्षण कोट्याथ फलन्ति जापैः ॥३॥ ____टीका-अत्रोदाहरणमाह-यथाहीत्यादिना ' यथाही ' ति तद्यथेत्यर्थः, 'तु' शब्दश्चरणपूत्तौं, 'गर्भः'-भ्रूणः, 'नव
-