________________
*
-
-
-
-
*
-
-
-
Aॐॐ
भिर्मासैः पूर्णरि 'ति नवसु मासेषु पूर्णेष्वित्यर्थः, ' इहैव '-अस्मिन्नेव संसारे, 'मृतिम् लभेत् '-प्रजननं लभते, परस्मैपदंदा चिन्त्यम्, 'नागि'ति-नवमासात् प्राक् सूर्ति न लभत इत्यर्थः, उदाहरणान्तरमाह-तथेत्यादिना 'तथा' शब्दः पुनः शब्दश्च समुच्चये, 'काश्चन'-कापि, 'मन्त्रविद्या'-मन्त्रसम्बन्धिन्यो विद्याः, 'लक्षेणजापैः '-लक्षजापा,' अथे 'ति || यद्वेत्यर्थः, 'कौटिजापैः '-कोटिजापात्, 'फलन्ति'-फलदायिन्यो भवन्ति ॥३॥ मूलम्-वनस्पतिर्वा समये स्वकीये, सर्वः फलत्येप न चाऽऽत्मशैघ्यात् ।
सेवाऽपि राजत्रिदशेश्वरादि-सम्बन्धिनी वा फलतीह काले ॥४॥ टीका-उदाहरणान्तरमाह-वनस्पतिरित्यादिना 'वा'-अथवा, 'एप'-प्रसिद्धः, 'सर्व'-सकल:, 'वनस्पतिः'-वृक्षः, पुष्पगन्तरैव फलशाली वा वृक्षः, ' स्वकीये समये '-निजकाले, स्वफलकाल इत्यर्थः, 'फलति '-फलयुक्तो भवति, 'न चाऽऽत्मशैध्यादिति '-आत्मनः शीघ्रत्वेन स न फलतीत्यर्थः, उदाहरणान्तरमाह-सेवाऽपीत्यादिना 'वा'-अथवा, 'राज-15 त्रिदशेश्वरादिसम्बन्धिनी'-नृपसम्बन्धिनी इन्द्रादिसम्बन्धिनी च, 'सेवाऽपि'-सेवनमपि, 'इह'-अस्मिन् संसारे, 'काले'समये, स्वसमय एवेत्यर्थः, फलति -फलदायिनी भवति ॥ ४॥
मूलम्-संसाध्यमानोऽत्र रसोऽपि काले, सिद्धः फलायाऽस्ति न साध्यमानः ।
__ तथाऽन्यदेशव्यवहारकर्म, तत्कालपूर्जी फलति प्रकामम् ॥५॥ १. पारदोऽपि ।
*
-
-
5*
-
-
-
-