________________
फलाय भवति, 'अथे ' ति-अनन्तरे, 'यदि'-चेत् , ' कश्चिदंगी'-कोऽपि प्राणी, ' ईशं निन्देत् '-ईशस्य निन्दा कुर्यात् , तर्हि 'जनतासमक्षं'-जनसमूहसम्मुखे, 'सैव'-निन्दकजन एव, सोविलोपे इत्यादिना चरणपूर्ती, लोपेऽपि सन्धिः, 'दुःखीस्यात्'-दुःखयुक्तो भवति ॥ १७॥ . मूलम्-स्तुतेऽधिकं स्यान्नहि सावभौमे, विनिन्दितेऽस्मिंस्तु न किञ्चिदूनम् ।
नैवं प्रभौ पूजननिन्दनाभ्या-माधिक्यहानी स्त इमे तु कर्तुः ॥१८॥ टीका-दृष्टान्तविस्पष्टनपूर्वकं दार्टान्तविषयमाह-स्तुतेऽधिकमित्यादिना यथा 'सार्वभौमे'-चक्रवर्तिनृपे, 'स्तुते'- 8 स्तुतिं नीते सति, 'सः'-सार्वभौमः, 'अधिकं न हि स्यात् '-अधिको न भवति, वृद्धिं न यातीत्यर्थः, 'तु'-पुनः, 'अस्मिन्'सार्वभौमे, 'विनिन्दिते'-कुत्सां नीते सति, 'सः'-सार्वभौमः, 'किञ्चिदूनम् '-किमपि न्यून, 'न भवति'-कथमपि हानि न यातीत्यर्थः, हार्टान्ते घटनामाह-एवमित्यादिना 'एवम् '-अनया रीत्या, 'पूजननिन्दनाभ्याम्'-अर्चाकुत्साभ्यां, 'प्रभौ'-परमेश्वरे, 'आधिक्यहानी न स्त:'-उपचयापचयो न भवतः, 'तु'-किन्तु, 'इमे'-आधिक्यहानी, 'कर्तुःकारकस्य, अर्चाकुत्साकारकस्य जनस्येतिभावः, स्तः, पूजनकर्तुर्जनस्याऽऽधिक्यं निन्दनकर्तुश्च जनस्य हानिर्भवतीतिभावः ॥१८॥ मूलम् यद्वा पुनः कश्चिदपथ्यपथ्या-हारीह दुःखं च सुखं च भुङ्क्ते ।
न स्तस्तु ते आहृतवस्तुनो यद्, एवं च सिद्धार्चनमात्मगामि ॥१९॥ टीका-उदाहरणान्तरपूर्वकमुक्तविषयं निगमयति-यद्वेत्यादिना ' यद्वा'-अथवा, 'पुनरि 'ति समुच्चये, यथा