________________
प्रक्षेपणकर्तारम् 'जनम् , “अभ्युपेते'-प्राप्ते भवतः, किन्तु 'तं'-क्षेपकम् जनम् , ' अतीत्य '-प्रोल्लचय, 'कुत्रचित्'- 1 कुत्रापि, ' जातु'-कदाचित् , 'न यातः'-न गच्छतः ॥१५॥
मूलम्-कश्चिद्रवेः सम्मुखमात्मना रजो-ऽथवा सिंतानं क्षिपति क्षमास्थः।
- तत्सर्वमस्यैव समेति सम्मुखं, न याति सूर्य च तथोचखं प्रति ॥ १६ ॥ टीका-उदाहरणान्तरमाह-कश्चिदित्यादिना 'क्षमास्था'-भूमौ स्थितः, 'कश्चित् '-कोऽपि जनः, यदा 'रवेः सम्मुखम् '-सूर्यस्य समक्षम्, 'आत्मना'-स्वयं, 'रजः"-धूलिम्, 'अथवा -यद्वा, सितानं '-करं, ‘क्षिपति'प्रक्षेपं नयति, तदा ' तत्'-पूर्वोक्तम्, 'सर्व'-सकलं रजःप्रभृति, ' अस्यैव '-प्रक्षेपकस्यैव, 'सम्मुखं समेति'-समक्षमायाति, किन्तु 'तत्'-सर्व, 'सूर्य'-रविं प्रति, 'तथे 'ति समुच्चये, 'च' शब्दचरणपूत्तौं, ' उच्चखं प्रति '-उच्चाकाशमुद्दिश्य, 'न याति'-न गच्छति ॥ १६॥
मूलम्-यद्वा पुनः कश्चन सार्वभौम, संस्तौति तस्यैव फलाय से स्यात् ।।
निन्देदथेशं यदि कश्चिदङ्गी, स्यात्सैव दुःखी जनतासमक्षम् ॥१७॥ टीका-उदाहरणान्तरमाह-यद्वेत्यादिना 'यद्वा'-अथवा, 'पुनरि "ति समुच्चये, कश्चन'-कोऽपि जन:, यदा 'सार्वभौम'-चक्रवर्तिनृपं, 'संस्तौति'-सम्यक्तया प्रस्तुते, तदा 'स:'-संस्तवं, ' तस्यैव फलाय स्यात् '-स्तोतुरेव |
१. कर्पूरं । २ संस्तवः ।