________________
सफलो भवति ॥ १३ ॥ मूलम्-यद्वा हि पूजा परमेश्वरेऽत्रा-लितेऽथ निन्दा न लगेत्समाऽपि ।
ते यादृशे तत्र कृते तु तादृशे, अभ्येत आत्मानमिमं स्वकीयम् ॥१४॥ टीका-परमेश्वरे पूजानिन्दयोरसम्बन्ध इति दर्शयति-यद्वेत्यादिना 'ही 'ति निश्चये, चरणपूतौ वा, 'यद्वा'अथवा, 'अलिप्से'-निलिपे, 'अत्र'-अस्मिन् प्रसिद्धे, 'परमेश्वरे'-भगवति, 'समाऽपि '-सर्वाऽपि, ' पूजा-अर्चा, 'अथे "ति समुच्चये, 'निन्दा'-कुत्सा, 'न लगत् '-न लगति, प्रलिप्ता न भवतीतिभावः, 'तु' शब्दो विनिश्चये, 'तत्र'-अलिसे परमेश्वरे, 'ते'-पूजानिन्दे, 'यादृशे'-यथाप्रकारे, ‘कृते '-विहिते, भवतः 'तादृशे'-तथाविधे ते, ' इमं '-प्रसिद्धं, ' स्वकीयमात्मानं '-स्वस्य जीवम् , ' अभ्येत '-आयातः॥१४॥ मूलम्-कुडये यथा वज्रमये नरेण, क्षिप्ता मणिर्वा दृषदप्यथापरा।
ते द्वे अपि क्षेपकमभ्युपेते, न जातु यातस्तमतीत्य कुत्रचित् ॥१५॥ टीका-अत्रोदाहरणमाह-कुड्य इत्यादिना 'यथा'-येन प्रकारेण, यदि 'वज्रमये कुडये'-पाषाणनिर्मितायां मित्तौ, 'नरेण '-जनेन, 'क्षिप्ता'-प्रक्षेपं नीता, 'मणिः' 'वा'-अथवा, 'अथे 'ति समुच्चये, 'अपरा'-भिन्ना, गणेविभिनेत्यर्थः, ' इषदपि '-पाषाणोऽपि, भवतः, तर्हि 'ते'-पूर्वोक्ते, 'द्वे अपि '-उभे अपि, मणिषदो, 'क्षेपकं'
१. आयातः । २. गच्छतः । ३. क्षेपकम् ।
*5*555RSASAR
ॐ*