________________
RSSSROORSAS
आकार!, ' कृता'-निर्मिता, अस्ति तथा ' अस्याः'-पूर्वोक्ताया अपि आकृतेः, 'स्थापनं'-स्थापना, 'बुधैः'-विद्वद्भिः, 'स्वस्वसुगुप्तवेदने '-निजनिजगुप्तवृत्तान्तप्रकाशनाय, 'अन्यदन्यत् कृतं'-भिन्न भिन्न विहितमस्ति ॥ ११ ॥
मूलम्-पुनश्च रागा अपि शाब्दरूप्या-दाकारमुक्ताश्च तथापि तद्बुधैः।
ते रागमालाढयपुस्तकेषु, न्यस्ताः किलाकारभृतः समस्ताः ॥ १२॥ टीका-पुष्ट्यर्थ दृष्टान्तरमाह-पुनश्चेत्यादिना 'पुनथे "ति समुच्चये, यद्यपि ' रागा अपि '-भैरव्यादयोऽपि, 'शाब्दरूप्यात् '-शब्दस्वरूपभावात् , हेतौ पञ्चमी, ' आकारमुक्ताः'-आकृतिरहिताः सन्ति, 'च' शब्दश्वरणपूौं, ' तथापि'तदपि, 'तद्बुधैः -रागज्ञाभिर्जनैः, ' पूर्वोक्ताः समस्ताः '-सर्वे रागाः, 'किले 'ति निश्चयेन, 'रागामालाहयपुस्तकेषु'-रागमालानामकग्रन्थेषु, ' आकारभृतो न्यस्ताः'-आकृतियुक्ताः संस्थापिताः सन्ति ॥ १२॥ मूलम्-एवं त्वनाकारवतोऽप्यधीशितु-राकार एष प्रविकल्प्य सद्भिः।
यं यं वशं साधु समिष्य पूज्यते, सर्वोऽप्ययं तेषु फलत्यवश्यम् ॥ १३ ॥ टीका-दाष्र्टान्ते घटनामाह-एवमित्यादिना ' एवम् '-अनया रीत्या, 'तु' शब्दश्वरणपूत्तौं, 'अनाकारवतोऽपि'आकृतिरहितस्यापि, 'अधीशितः'-स्वामिनः, 'एप:'-पूर्वोक्तः, प्रसिद्धो वा, 'आकार:'-आकृतिः, 'सद्भिः'साधुभिर्जनैः, 'प्रविकल्प्य '-संकल्प्य, 'यं यं वशं समिष्य '-यं यं कामं अभिष्य, 'साधु'-सम्यक्तया, 'पूज्यते 'अय॑ते, ' तेषु'-पूर्वोक्तेषु सत्सु, 'अयं '-पूर्वोक्तः, 'सर्वोऽपि '-सकलोऽपि वशः, " अवश्यं '-निश्चयेन, 'फलति'