________________
RASREIGRICRORISTSGRORISSAGE
'इमाः'-प्रसिद्धाः, 'समाः'-सर्वाः, 'लिपी:'-लेखशैली:, 'मिथ्या विधातुम् '-अन्यथा कर्तुम् , ' कोऽपि '-कश्चित् जना, 'ही' ति चरणपूत्तौं, 'शक्तः'-समर्थों नास्ति, तर्हि किमस्तीत्याह-येत्यादिना 'किले 'ति निश्चये, 'च'शब्दश्चरणपूत्तौं, 'येषु'-जनेपु, 'या:-लिपयः, 'सिद्धाः'-प्रसिद्धाः सन्ति, 'तैः'-पूर्वोक्तैः, ' नरैः'-जनैः, 'ताभिः'पूर्वोक्ताभिः, 'लिपीमि:'-लेखशैलीमिः, फलं 'प्रविधीयते'-क्रियते ॥९॥ मूलम्-लिप्यो विभिन्ना इह यद्यपीमा, व्यक्तिः समैवास्ति तु पाठकाले ।
नृणां तथा कार्यकृतिः समस्ता, ताभिः समाना भवतीत्यवेहि ॥ १० ॥ टीका-उक्तविषयमेव स्पष्टयति-लिप्य इत्यादिना 'इह '-अस्मिन् संसारे, 'यद्यपि ' ' इमाः'-प्रसिद्धाः, 'लिप्यो विभिन्नाः'-लेखशैल्यो भिन्नाभिन्नाः सन्ति, तथापि, 'पाठकाले'-पठनसमये, 'व्यक्तिः'-प्राकटयम् , वर्णाभिव्यक्तिरितिभावः, 'तु' शब्दो विनिश्चये, 'समैवास्ति'-तुल्यैव भवति, तथेति समुच्चये, 'नृणाम्'-मनुष्याणाम् , 'समस्ता'-सर्वा, 'कार्यकृति-कार्यविधानं, 'ताभि:'-लिपिमिः, 'समाना भवति'-तुल्या जायते, 'इति'-एतत् , त्वम् 'अवेहि'-जानीहि ॥१०॥
मूलम्-घनं किमाकारविवर्जिताना-मिहाक्षराणामियमाकृतिः कृता।
__ अस्या अपि स्थापनमन्यदन्यत्, कृतं वुधैः स्वस्वसुगुप्तवेदने ॥ ११॥ टीका-उक्तविषयमेव विस्पष्टयति-घनमित्यादिना 'घनं किमि 'ति-अत्र विषये बहुजनोक्तेन किमित्यर्थः, ' इह'अस्मिन् संसारे, ' आकारवर्जितानाम् '-आकृतिरहितानाम् , ' अक्षराणाम् '-वर्णानाम् , ' इयं '-पूर्वोक्ता, 'आकृतिः'