________________
SSSSSSSSSSSSSSSSSSSS
टीका-अस्यैव पुष्टिमाह-यदीत्यादिना 'यदि '-चेत् , ' अक्षराणां '-वर्णानाम् , ' आकृतिः'-आकारः, 'नियता ॥ स्यात् '-निश्चिता भवेत्', 'तदा'-तर्हि, ' समेपां'-सर्वेपाम् वर्णानाम् , 'आकृतिः'-आकारः, ' सहक स्यात् "समाना भवेत्, परन्तु, 'सा'-सागाकृतिः, 'नास्ति'-न विद्यते, 'अतः '-अस्मात् कारणात् , 'वर्णाकृतिः'-अक्षराणामाकार, · भिन्नकभिन्निकैव '-निश्चयेन भिन्नाभिन्नाऽस्ति, ' तत्र '-वर्णाकृती, 'काऽपि '-काचिदपि वर्णाकृतिः, 'तुल्या'-समाना नास्ति ॥ ७॥ मूलम्-यावन्ति राष्ट्राणि च सन्ति विश्वे, वर्णाकृतिस्तेष्वपरापरैव ।
तव्यक्तिकाले तु समोपदेश-स्तैः कार्यमप्यत्र विधीयते समम् ॥८॥ टीका-उक्तविषयमेवाह-यावन्तीत्यादिना 'च' शब्दः समुच्चये, ' विश्वे'-जगति, ' यावन्ति राष्ट्राणि सन्ति'यत्सङ्ख्याका देशा विद्यन्ते, 'तेषु'-राष्ट्रेषु, 'वर्णाकृतिः '-अक्षराणामाकारः, 'अपरापरैव'-निश्चयेन भिन्नाभिन्नास्ति, परन्तु ' तद्व्यक्तिकाले '-वर्णानाम् पाकव्यसमये, पठनकाल इतिभावः, 'समोपदेशः'-समान उपदेशः, भवति तथा 'अत्र'-अस्मिन्संसारे, 'तैः '-वर्णैः, 'कार्यमपि '-कृत्यमपि, “ समं विधीयते'-तुल्यं क्रियते ॥४॥ मूलम्-पुनश्च पश्य त्वमिमाः समा लिपी-मिथ्या विधातुं न हि कोऽपि शक्तः।
या येषु सिद्धाः किल तैश्च ताभि-नरैलिपिभिः प्रविधीयते फलम् ॥९॥ टीका-उक्तविषयमेवाह-पुनश्चेत्यादिना 'पुन' रिति समुच्चये, 'च' शब्दश्वरणपूत्तौं, त्वं पश्य '-ईक्षस्व, यत्