________________
मूलम् - पुनर्बुधेक्षस्व यतीह सन्ति, लोकेषु लोकाः किल लब्धवर्णाः । सर्वैश्वतैराकृतिवर्जिता अपि वर्णाः प्रक्लृप्ताः स्वकंनामसाकृताः ॥ ६॥
!' हे विद्वन् !, त्वम् मध्ये, ' यति ' - यत्
टीका - पुष्ट्यर्थमुदाहरणान्तरमभिधातुकाम आहे - पुनरित्यादि ' पुन ' रिति समुच्चये, ' हे बुध 'ईक्षस्व ' - पश्य, यत् ' इह ' - अस्मिन् संसारे, 'किले 'ति स्ववार्त्तायाम्, 'लोकेषु ' -जनानां सङ्ख्याका, ' लब्धवर्णाः ' - साक्षराः, ' लोकाः सन्ति ' -जना वर्त्तन्ते, ' च ' शब्दचरणपूर्ती, 'तैः ' - पूर्वोक्तः, ' सर्वैः सकलैः, ' आकृतिवर्जिता अपि ' - आकाररहिता अपि, 'वर्णाः ' - अक्षराणि, 'स्वकनामसाकृताः प्रक्लृप्ताः' - स्वस्वनाम्नाऽऽकारसहिता रचिताः सन्ति, अयमाकारोऽयं च हकार इति स्वस्वनामग्राहं वर्णाः साकाराः कल्पिता इतिभावः ॥ ६ ॥ मूलम् - यथाकृतिः स्यान्नियताक्षराणां, तदा समेषां सहगाकृतिः स्यात् ।
सौ नास्त्यतो भिन्नकभिन्निकैव, वर्णाकृतिः काऽपि न तत्र तुल्या ॥ ७ ॥
१ रचिताः । २. स्वकं यन्नाम तेनैव साकृताः साकारा ये ते स्वकनामसाकारा आकारादयो वर्णा यथाऽयमाकारोऽयं ककारोऽयं हकार इति स्वस्वनामग्राहं वर्णाः साकाराः कल्पिताः स्वचित्तकल्पनया स्थापिता इति । ३. ननु एते वर्णा महद्भिः स्थापिता इति कथं प्रतिज्ञायते, उच्यते यद्येषां वर्णानां नियता शाश्वती पवाऽऽकृतिः स्यात्तदा समेषां लोकानां ककारादीनां अक्षराणां सदृशी एवाऽऽकृतिः स्यात् । ४. सा तु सर्वेषां समाकृतिर्न दृश्यते सर्वैरपि स्वमनोभिमततया पृथक् पृथगेव लिख्यते अतो हेतोरेव भिन्नभिन्नाकृतिः सर्वेषामपि लिपिकर्मकारिजनानामिति ॥