________________
ASSSERIES
आज्ञाम् , 'नोलबन्ते '-न व्यतिक्राम्यति, 'स:'-एप विवक्षितः, सोऽचिलोपे, चेदित्यादिना चरणपूत्तौ लोपेऽपि सन्धिः, 'जनेषु'-मनुष्याणाम् मध्ये, ' साधुः'-भव्योऽस्ति, उदाहरणान्तरमाह-आम्नायेत्यादिना 'तथे 'ति समुच्चये, 'आम्नायशास्त्रेषु'-आगमशास्त्रेषु मन्त्रशास्त्रेषु वा, 'मरुधवो:'-वाय्याकाशयोः, 'मण्डलतः '-मण्डलद्वारा, 'आकृतिविलेख्या स्यात् '-आकारः संलेख्यो भवेत् , एतत्मरुन्मण्डलमेतचाऽऽकाशमण्डलमित्युक्त्वा जनैर्मरुदाकाशयोराकारो विलिख्यत इतिभावः ॥३-४॥
मूलम्--स्वरोदयस्याऽथ विचारशास्त्रे, तत्त्वानि पश्चापि च साकृतीनि ।।
__ अनाकृतं वस्त्विति साकृतं यथा, स्यादित्थमाकार इहाऽप्यनाकृतः ॥५॥ टीका-उदाहरणान्तरपूर्वकं फलितमाह-स्वरोदयेत्यादिना ' अथे' ति समुच्चये, 'च' शब्दश्चरणपूर्ती, 'विचारशास्त्रे'-प्रश्नादिविचारागमे, ' स्वरोदयस्य'-स्वरोदयसम्बन्धीति, 'पञ्चाऽपि'-पश्चसङ्ख्याकान्यपि, 'तत्वानि'-पृथिव्यप्तेजोवाय्वाकाशलक्षणानि, ' साकृतीनि'-आकारसहितानि, उच्यन्ते फलितमाह-अनाकृतमित्यादिना ' यथा'-येन प्रकारेण, ' इति '-उक्तरीत्या, 'अनाकृतम् '-आकाररहितम् वस्तु, 'साकृतम्'-आकारसहितम् मन्यते, ' इत्थम् '-अनया रीत्या, 'इह '-अस्मिन्संसारे, 'अनाकृतेरपि'-आकाररहितस्यापि, सिद्धस्याऽपीतिभावः, 'आकारः स्यात्'-आकृतिर्भवति ॥५॥
१. पृथिव्यतेजोवाय्वाकाशलक्षणानि । २. आकृतिराकृतमाकारः भावे क्तः अनाकृतमनाकारं । ३. सिद्धस्य ।
२२