________________
-
-
।
मूलम्-लोकेऽप्यनाकारमयस्य वस्तुनः, आकारभावः परिदृश्यते यथा।
आज्ञास्त्यसो भागवतीति वाचं-वाचं तु लेखाक्रियते मनुष्यैः ॥३॥ तां लङ्घते यः स तदा न साधु-र्नोल्लङ्घते सैष जनेषु साधुः।
आम्नायशास्त्रेष मरुद्यवोः स्यात. तथाकतिमण्डलतो विलेख्या ॥४॥ टीका-उक्तविषयमेवाह-लोकेऽपीत्यादिना 'लोकेऽपि '-संसारेऽपि, 'अनाकारमयस्य वस्तुनः'-आकाररहितस्य पदार्थस्य, 'आकारभावः'-आकृतेः सत्ता, 'परिदृश्यते '-अवलोक्यते, एतदेव दर्शयति-यथेत्यादिना यथा'-येन प्रकारेण, 'असौ'-विवक्षिता, 'भागवती'-भगवत्सम्बन्धिनी, 'आज्ञास्ति'-आदेशो विद्यते, 'एतत् '-उक्ता, 'तु' शब्दश्चरणपूत्तौं, 'मनुष्यैः'-जनैः, 'वाचंवाचम्'-उक्तोक्ता, 'लेखाक्रियते'-रेखाविधीयते, भागवत्याज्ञाऽमूर्ती सा चाऽप्यमूर्तस्य भगवतस्तथाऽपि तस्या आज्ञाया जनै रेखाक्रियत इतिभावः, एतदेव स्पष्टयति-तामित्यादिना यदि यो जनः 'ता'-भागवतीमाज्ञां, ' लवते '-व्यतिक्राम्यति, 'तदा'-तर्हि, 'सः'-जनः, 'साधु:'-भव्यो नास्ति, तथा यः 'ताम्'
१. आशा स्वयं साक्षादाकाररहिता पर तस्या अपि रेखारूप आकार कल्प्यते या चाऽऽज्ञा साऽपि अमूर्तस्य भगवदादेः स्वामिनः प्रतापस्य सम्बन्धिनी तेन पूर्व भगवदादिप्रतापोऽमूर्तः अमूर्तस्याऽप्यस्याऽमूर्त्ता आशा अस्या अपि अमूर्तीया रेखारूप आकारः सद्भिः कल्पित इत्यर्थः। २. स्वामिसम्बन्धिनी । ३. उक्तोक्ता । ४ रेखा । ५ आशां। ६ भव्य । ७. आगमशाले, मन्त्रशास्त्रे । ८. मरुद्वायुः द्यौश्च नभ. मरुञ्च द्योश्च मरुद्द्यावी तयोर्मरुद्यवो. वायुनभसोः । ९ मण्डलकारणहेतुनाकतिविलेल्या यथा मरुत्मण्डलं चाऽऽकाशमण्डलं चेति उक्त्वा तदाकारो लिख्यते ॥