________________
-
-
टुर्बलवंशसम्भवो जनः, ' मौलम्'-मूले जीतम् , 'राजन्यकं'-राजसम्बधिनम् पुरुषम्, 'प्रशास्ति'-शासनविषयं करोति, परन्तु ' यदा'-यस्मिन्काले, 'कश्चित् '-कोऽपि, 'तदुक्तं न करोति '-दुर्वलवंशोत्पन्नपुरुपकथनं न मन्यते, तदा 'स'तत् कथनाऽमंता जनः, 'तेन '-राज्यस्थितदुर्बलवंशसम्भवपुरुषेण, 'नन्दवदेव'-नन्दनामकराजतुल्यत्वेनैव, 'शास्यते - शिक्षां दाप्यते, दण्ड्यत इतिभावः ।। ३२-३३॥
मूलम्-विचार्यते चेन्मनसा मनुष्य-मौलो गुणी राजसुतः स योग्यः।।
परन्तु यः क्षुद्रकुलोऽपि राजा, स एव सेव्यः खलु पञ्चपूजितः ॥ ३४ ॥ टीका-उक्तविषयमेव स्पष्टयति-विचार्यत इत्यादिना उक्तदशायाम् 'चेत्'-यद्यपि, ‘मनसा'-हृदयेन, 'मनुष्यैःजनैः, एतत् ' विचार्यते '-चिन्त्यते, ' यत्'-यः, 'मौलः '-मूलभवः, तथा 'गुणी '-गुणयुक्तः, 'राजसुतः'-राज18 पुत्रोऽस्ति, 'स:'-राजपुत्रः, ' योग्यः'-अर्हः, शासनयोग्य इतिभावोऽस्ति, परन्तु तथापि 'खल्वि' ति निश्चयेन, या
'क्षुद्रकुलोऽपि'-नीचवंशोत्पन्नोऽपि, ‘पञ्चपूजितः'-पञ्चजनार्चितः, 'राजा'-नृपो भवति, 'सः'-पूर्वोक्त एव, 'सेव्यः'सेवनाहः, सर्वजनैः प्रभुत्वेन मानार्ह इतिभावः ॥ ३४ ॥
मूलम्-एवं हि चिन्तामणिमुख्यमेतद्, वस्तु प्रधानं निजकस्वभावात् ।
ततोऽपि मान्यं भुवि पारमेश्वरं, बिम्बं यतः पञ्चभिरत्र पूजितम् ॥ ३५॥ टीका-दार्टान्तविपयमाह-एवमित्यादिना ' ही 'ति निश्चयेन, 'एवम् ‘-अनया रीत्या, 'एतत् '-पूर्वोक्तम् ,
GHOSSROSSROSSES