________________
'चिन्तामणिमुख्यं '-चिन्तामण्यादि वस्तु, ' निजकस्वभावात् '-स्वस्वभावेन, 'प्रधानम् '-मुख्यमस्ति, परन्तु ' भुवि - प्रथिव्याम, संसार इतिभावः, 'पारमेश्वरं विम्बं'-परमेश्वरसम्बन्धिनी प्रतिमा, 'ततोऽपि -तस्मादपि, चिन्तामण्यादिवस्त्वपेक्षयाऽपीत्यर्थः, 'मान्यं '-मानार्हमस्ति, अत्र हेतुमाह-यत इत्यादिना ' यतः'-यस्मात् कारणात् , ' तत् '-पारमेश्वर 1. बिम्ब, ' अत्र'-अस्मिन् संसारे, 'पञ्चभिः'-पञ्चसङ्ख्याकजनैः, 'पूजितम् '-अर्चितम् ।। ३५॥"
मूलम्-लोके यदेवाहतमस्ति पञ्चभिः, तदेव मान्यं क्षितिपैरपि ध्रुवम् ।
यथा विवाहार्थनृपाः महाजना, न्यायाङ्किपुत्रावपरेऽपि चेत्थम् ॥ ३६॥ ये पञ्चभिस्तत्कृतभाग्यनोदा-त्संस्थापिताः सन्ति त एव मान्या।
तथा स्वपूजाह्वयकर्मवीर्या-त्कृताऽस्ति यैशी प्रतिमा सकाऽा ॥ ३७॥ टीका-उक्तविपय एव पुष्टिमाह-लोक इत्यादिना 'लोके'-संसारे, 'यदेव'-वस्तु, 'पञ्चभिः'-पञ्चसङ्ख्याकजनैः, 'आहतमस्ति'-सत्कृतं वर्त्तते, 'तदेव'-वस्तु, 'क्षितिपैरपि ' 'ध्रुवं'-निश्चयेन, 'मान्यं '-मानार्हम् , आदरणीयमितिभावः, भवति, अस्योदाहरणमाह-यथेत्यादिना ' यथा'-येन प्रकारेण, 'विवाहार्थनृपाः'-वरराजाः, 'महाजना'-श्रेष्ठिनः, तथा
'न्यायाङ्किपुत्रौ'-धर्मपुत्रः, उत्सङ्गिपुत्रश्च, ' इत्थम् '-अनया रीत्या, 'च' शब्दवरणपूत्तौं, 'अपरेऽपि '-अन्येऽपि, RI ' तत्कृतभाग्यनोदात् '-स्वस्वभाग्यप्रेरणेन, 'ये ' ' पञ्चभिः '-पञ्चसङ्ख्याकजना, 'संस्थापिताः सन्ति '-स्थापनां
१. पालक । २. सा ।
।
राजाल