________________
टीका-अस्योत्तरमाह-अहो इत्यादिना 'अहो!' इत्यामन्त्रणे, 'हे विचारिन् !' हे विचारशील !, 'एवम् '-उक्तरीत्या, त्वम् 'अविचारितं मा वद'-अविमृष्टं मा कथय, ' इह '-अस्मिन् जगति संसारे, त्वम् ' पश्य'-अवलोकन कुरु, ' यत्'-यद्वस्तु, 'मूलतः'-मूलात् , 'गुणि'-गुणयुक्तं, 'प्रतीतम् '-प्रसिद्धमस्ति, 'तत् '-वस्तु, 'पञ्चकृतं '- || पञ्चभिर्जनैर्मतं सत्, 'ततोऽपि -तस्मादपि, पूर्वापेक्षयाऽपीतिभावः, 'गुणाढ्यम् '-गुणयुक्तम् भवति ॥ ३१ ॥ मूलम्-यथाहि कश्चित्किल राजपुत्रः, प्रायेण वीर्यादिगुणास्पदं स्यात् ।।
तं प्रोज्झ्य चेदुर्बलवंशसम्भवं, पुण्याच राज्ये विनिवेशयन्ति ॥ ३२ ॥ प्रामाणिकाः पञ्च यदा तदा त्वयं, राजन्यकं मौलमपि प्रशास्ति।
यदा तदुक्तं न करोति कश्चित्स शास्यते नन्दवदेव तेन ॥३३॥ टीका-उक्तकथनस्योदाहरणमाह-यथाहीत्यादिना ' यथाही 'ति तद्यथेत्यर्थः, 'किले 'ति निश्चये, 'कश्चित् '-कोऽपि, | 'राजपुत्रः '-क्षत्रियसुतः, 'प्रायेण '-बहुधा, 'वीर्यादिगुणास्पदं स्यात् '-शौर्यादिगुणानां स्थानं भवेत् , ' तं'-राजपुत्रं, 'प्रोज्झ्य'-त्यक्त्वा, · चेत् '-यदि, 'यदा'-यस्मिन्काले, 'पञ्च प्रामाणिकाः '-पञ्चसङ्ख्याकाः प्रामाणिकजना, 15 'पुण्यात् '-पुण्यवशात् , पूर्वपुण्येनेत्यर्थः, 'च' शब्दश्चरणपूत्तौं, 'दुर्बलवंशसम्भवम् '-नीचकुलोत्पन्नम्, 'कश्चित् 'पुरुषम् , ' राज्ये विनिवेशयन्ति'-राज्यशासने स्थापयन्ति, 'तदा'-तस्मिन् काले, 'तु' शब्दश्चरणपूर्ती, ' अयं'- |
१. नन्दनामराजेन (राजा?) इव शिक्षा दाप्यते ।