________________
REASURESHESAR
आराधिता अङ्गिमतं दिशन्ति, नैतागर्चा किल पारमेश्वरी।।
अहो यदेषा सुलभोपलादि-मयी तदा किं सहशी स्वामीभिः ॥ ३०॥ टीका-दृष्टान्तदान्तिवैषम्यमवबुध्य प्रश्नयति-सत्यमित्यादिना 'हे मुने!' हे साधो !, 'अदः सत्यमस्ति'पूर्वोक्तं भवतः कथनं यथार्थ भवति, 'परं'-परन्तु, य एते'-पूर्वोक्ताः, 'दक्षिणावर्त्तमुखाः पदार्थाः स्युः'-दक्षिणावर्तकादयः पदार्थाः सन्ति ते, 'अजीववन्तोऽपि '-जीवरहिता अपि, अप्राणिनोऽपीत्यर्थः, 'विशिष्टजातिभेदात् '-विशेषप्रकारकजातिभेदेन, 'तथे 'ति समुच्चये, 'दुर्लभवस्तुभावात् '-दुःखेन लभ्यपदार्थसद्भावेन, हेतौ पञ्चमी 'आराधिता'सेविताः सन्तः, 'अङ्गिमतं दिशन्ति '-प्राणिमनोरथं ददाति, परन्तु ' अहो!'-इत्यामन्त्रणे, 'किले 'ति निश्चयेन, 'पारमेश्वरी'-परमेश्वरसम्बन्धिनी, 'अर्चा '-प्रतिमा, 'एतादृग्'-उक्तप्रकारा विशिष्टजातिभिन्ना, दुर्लभवस्तुभावयुक्ता चेत्यर्थः, नास्ति, अत्र हेतुमाह-यदित्यादिना 'यत्'-यस्मात् कारणात्, 'एषा'-पारमेश्वरी अर्चा, 'सुलभा'-सुखेन लभ्या, तथा 'उपलादिमयी '-पाषाणादिनिर्मिताऽस्ति, 'तदा'-तर्हि, 'तु' शब्दो विशेषणार्थः, 'अमीभिः'-दक्षिणावर्तकादिभिः, 'सदृशी'-तुल्या, 'किं'-कथम् भवितुम् शक्नोति ? ॥ २९-३०॥
मूलम्-अहो ! विचारित्नविचारितं मा, वदस्त्वमेवं जगतीह पश्य ।
यन्मूलतो वस्तु गुणि प्रतीतं, ततोऽपि यत्पश्चकृतं गुणाढ्यम् ॥ ३१ ॥ १. दक्षिणावर्तादिभिः॥
SSSSSSSSSSSSS
-
-