________________
दक्षिणावर्त्तकः शङ्खादि, कामकुम्भकलशः, चिन्तामणी मणिविशेषः, चित्रकवलिताविशेषः, ' एतन्मुख्याः ' - एतदाद्याः पदार्था:, ' इह ' - अस्मिन् संसारे, 'कानीन्द्रियाणि - श्रोत्रादीनि, 'वहन्ति ' - दधति, यत् ते दक्षिणावर्त्तकादयः ' अर्चिता: ' - पूजिताः सन्तः, 'जनानाम् ' - मनुष्याणाम्, 'मतमभीष्टम् ' - मनोवाञ्छित मित्यर्थः, 'प्रकुर्वन्ति ' - कुर्वते ॥ २७ ॥
मूलम् - वस्तुस्वभावाद्यदमी अजीवाः, स्वतोऽस्पृहावन्त इहाऽङ्गिकामान् ।
यच्छन्ति यदूवत् खलु पारमेशी, पुण्यस्य सिद्धये प्रतिमाऽर्चिता तथा ॥ २८ ॥
टीका -- दान्तविषयमाह - वस्त्वित्यादिना ' यदि 'ति निश्रयेन, ' यद्वत् ' - यथा, ' अजीवाः ' -जीवरहिताः, 'अमी ' - पूर्वोक्ता दक्षिणावर्त्तकादयः, ' स्वतः ' - स्वयं, 'अस्पृहावन्तः ' - स्पृहारहिता अपि, 'वस्तुस्वभावात् '-- स्वगतस्वभावविशेषेण, ' इह ' - अस्मिन् संसारे, 'अङ्गिकामान् यच्छन्ति ' - प्राणिमनोरथान् ददति, ' तथैव ' - तेनैव प्रकारेण, 'खल्वि 'ति निश्रयेन, 'पारमेशी प्रतिमा ' - परमेशसम्बन्धिनी मूर्ति:, ' अर्चिता' - पूजिता सती, 'पुण्यस्य सिद्ध्यै '-धर्मसाधनाय भवति ॥ २८ ॥
आप्तनियुक्तवस्तुनः विशेषमान्यतां नवभिः श्लोकैराह
मूलम् - सत्यं मुने ! ऽदोऽस्ति परं य एते, स्युर्दक्षिणावर्त्तमुखाः पदार्थाः । अजीववन्तोऽपि विशिष्टजाति - भेदात्तथादुर्लभवस्तुभावात् ॥ २९ ॥
१. यथा । २. परमेशस्य इयं पारमेशी । ३. अप्राणिनः ।