________________
Sॐॐॐॐॐ
सये भवति, अत्र दृष्टान्तमाह-यथाहीत्यादिना ' यथाही' ति तद्यथेत्यर्थः, 'वे'ति निश्चयेन, 'च' शब्दश्चरणपूतों,
कस्यचित् '-कस्यापि, 'अस्पृहावतः '-स्पृहारहितस्य, निरमिकांक्षस्येतिभावः, 'सिद्धस्य '-सिद्धि प्राप्तस्य जनस्य, 'सेवनं'-सेवा, ' इष्टलब्धये '-अभीष्टपदार्थप्राप्तये भवति ॥२५॥
प्रतिमा अजीवापि तया पुण्यसिद्धिं श्लोकत्रयेनाहमूलम्-सिद्धस्तु साधो! वरिवर्ति साक्षा-दैशी त्वजीवा प्रतिमा प्रतिष्ठिता।
- नाऽयं विचारः परिपूजनीये, द्रव्ये यतः पूज्यत एव पूज्यः ॥ २६ ॥ टीका-अत्राऽऽशङ्कते-सिद्धस्त्वित्यादिना ' हे साधो!' हे श्रेष्ठ !, 'तु' शब्दो भिन्नक्रमद्योतनार्थः, 'सिद्धः'-सिद्धि प्राप्तः, 'माक्षात्'-प्रत्यक्षेण, 'परिवर्ति'-विद्यते, प्रत्यक्षेण फलप्रदो दृश्यत इतिभावः, 'तु'-परन्तु, 'ऐशी प्रतिमा'ईशसम्बन्धिनी मूर्तिः, 'अजीवा प्रतिष्ठिता'-जीवरहिता स्थिताऽस्ति, अस्योत्तरमाह-नाऽयमित्यादिना ' अयं '-पूर्वोक्ता, 'विचारः'-विमर्शः, 'परिपूजनीये द्रव्ये'-पूजाहे पदार्थे, न भवति, अत्र हेतुमाह-यत इत्यादिना 'यतः' यस्मात् कारणात् , 'पूज्यः'-पूजाहः, 'पूज्यत एव'-निश्चयेनाऽच्यते ॥ २६ ॥
मूलम् यद्दक्षिणावर्तककामकुम्भ-चिन्तामणिचित्रकवल्लिमुख्याः।
कानीन्द्रियाणीह वहन्ति यत्ते-र्चिताः प्रकुर्वन्ति मतं जनानाम् ॥ २७ ॥ टीका-अजीवप्रतिमापूजनेऽपि फलं भवतीत्याह-यद्दक्षिणेत्यादिनां ' यत् '-यस्मात् कारणात् , ' दक्षिणेत्यादि'