Book Title: Jain Siddhanta Bol Sangraha Part 02
Author(s): Bhairodan Sethiya
Publisher: Jain Parmarthik Sanstha Bikaner

View full book text
Previous | Next

Page 8
________________ एका कन्या कनिष्ठाऽभूत् , गृहलक्ष्मीव शोभना ॥ २५॥ माणकचन्द्र आत्मार्थी. जातो माणिक्यदीप्तिमान् । श्रीमच्चन्दनमलस्य, धर्मपत्नी गुणालयम् ॥२६॥ पत्यु मार्थिनी लेभे, दत्तकं यं शुभाशया। केसरीचन्द्रनामाऽभूत् . ततः स्वातन्त्र्यप्रीतिमान् ॥ २७ ॥ भद्रो मोहनलालोऽभूत् , यशकर्णः सुबुद्धिमान् । प्रखरप्रतिभायुक्तः, पुण्यशीलोऽपि बालकः ॥ २६ ॥ शैशवे निहतिं नीतः, लुब्धेनाकार्यकारिणा। ततः सोमलता जाता, ज्योत्स्नेव कुलदीपिनी ॥ २७ ॥ पानमलसुतः श्रीमान् , भवरलालापरावयः । जातः कुनणमल्लाख्यः, ज्येष्ठः पौत्रोऽस्ति यः कुले ॥ २८ ॥ तत्सुतोऽस्ति रवीन्द्राख्यः, प्रपौत्र. कुलतारकः । जीयाद्यथा रविर्भाति, भमिमण्डलदीपकः ।। २९ ॥ श्रीमलहरचन्द्रस्य, क्षेमचन्द्रामिधः सुतः । विद्याविनयसम्पन्नः, चित्रलेखा च नन्दिनी ॥ ३०॥ श्रीमद्भरवदानस्तु. पुरुषार्थे भगीरथः । दाने कर्णो दृढो धर्मे, न्याये मेरुरिव स्थिरः ॥ ३१॥ शैशवेऽधीतविद्यो यः, युवा धनमुपार्जयन् । निजबाहुबलेनेव, संजातः कोट्यधीश्वरः ॥३२॥ संसारासारतां बुद्धवा, उदेकर्णावसानतः । परमार्थे मनश्चके, दाने, ध्याने स धार्मिके ॥ ३३॥ श्रीमानप्रचन्द्रश्च जीवनस्यान्तिमे क्षणे । परलोकस्य यात्रायाम् , किञ्चिदातुं मतिं व्यधात् ॥ ३४ ॥ उभौ कृत्वा मनो दाने, पञ्चलक्षमितं धनम् । ध्र वकोशं विधायाथ, स्थायिनी पारमार्थिकीम ॥ ३५॥ स्थापयामासतुः संस्थाम्, धर्मस्योन्नतये तथा। शुभशिक्षाप्रचाराय, सेवाये जिनधर्मिणाम् ॥ ३६॥ साहित्यस्य प्रसाराय, धर्मजागरणाय च।। समाजे प्रौढविदुषां, पूरणाय क्षतिं तथा ।। ३७ ।।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 483