Book Title: Jain Siddhanta Bol Sangraha Part 02
Author(s): Bhairodan Sethiya
Publisher: Jain Parmarthik Sanstha Bikaner

View full book text
Previous | Next

Page 7
________________ श्रीमानकुंवरार्यायाः, अन्तेवासिन्यभूत्तदा । रंगूजीसम्प्रदाये च, जाता मोक्षाभिलाषिणी ॥ ११ ॥ आनन्दकुंवराख्यायाः प्रवर्तिन्याः सुशासने । धर्ममाराधयन्ती या, सच्चारित्रपरायणा ॥ १२ ॥ अद्यापि पूर्णवैराग्या धर्मे दृढतराधिका । चरन्ती तिनां वृत्तिम् , पूर्णोत्साहा विराजते ॥ १३ ॥ श्रीमत्प्रतापमलस्य, सखातास्तनयास्त्रयः । ज्येष्ठः सुगुणचन्द्राख्यः. हीरालालश्च मध्यमः ॥ १४॥ कनीयांश्चन्दनमलः. गुणवन्तो विचक्षणाः। यौवने एव सर्वे ते. कालधर्ममुपागताः ॥ १५ ॥ तिस्रः कन्यास्तथा जाताः, सुशीलाः सद्गुणाश्रयाः। तक्खूबाई प्रधानाऽऽसीत् , सुगणीबाइ मध्यमा ॥१६॥ मानवाई तृतीयाऽभूत्. धर्मागधनतत्पराः । व्यूढाः शुद्धे कुले सर्वाः, प्रजावत्यः दिवं गताः॥ १७ ॥ श्रीमद्भरवदानस्य, षट् पुत्रा विजज्ञिरे । षड्दर्शनीवाध्यात्मस्य, आधाराः कुलदीपनाः ॥ ॥१८॥ द्वे कन्ये च तथाभूताम् , एका ज्येष्ठा समेज्वभूत्। 'वसन्तबाई' त्याख्याना. वंशयुग्मप्रमोदिनी ॥ १९ ॥ ज्येष्ठमछः गुणैज्र्येष्ठः, विनीतो धार्मिकः सुधीः । श्रीमदगरचन्द्रस्य, दत्तकत्वमवाप यः ॥२०॥ पानमल्छः कलाविज्ञः, जातस्तदनु नीतिविद् । ततो लहरचन्द्रोऽभूत् . राजनीतिपटुर्महान् ॥ २१ ॥ उदेकर्णो दिवं प्राप्तः, युवैव कालधर्मतः । युगराजस्ततो जातः, व्यापारेऽतिविचक्षणः ॥ २२॥ ज्ञानपालः रसाभिज्ञः, काव्यसाहित्ययोः पटुः । स्वयं कर्त्ता सुकाव्यानां, विद्वत्सेवी कविप्रियः ।। २३॥ मोहिनी भ्रातृमनसा, मोहिनीबाइनामिका । सजाता शोभना कन्या, शौचशीलगणान्विता ।। २४ ॥ श्रीमतो ज्येष्ठमलस्य चत्वारस्तनयास्तथा। .. .

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 483