Book Title: Jain Muktavali Suristava Shatakam Cha Author(s): Muninandanvijay Publisher: Mansukhbhai Maneklal Shah View full book textPage 8
________________ एवं जीवोऽपि विज्ञेयो, विशेषस्तूपदश्यते । अविभुः सक्रियश्चाथा-नेकद्रव्यं वपुर्मितः ॥ १२ ॥ चिह्न चास्योपयोगः, स, साकारेतरभेदतः । द्विविधः स यथासङ्ख्यं, पुनश्चाष्टचतुर्विधः ॥१३॥ मतिश्रुतावधिमनः- पर्यवकेवलानि हि । ... मत्यज्ञानं श्रुताज्ञानं, विभङ्गज्ञानमेव च ॥ १४ ॥ इत्यष्टधा चतुर्धा च, श्रूयतामत्र कथ्यते। . चक्षुरचक्षुरवधि-केवलदर्शनं तथा ॥ १५ ॥ मतिश्चतुर्विधोक्ताव-ग्रहहापायधारणाः । तत्र चावग्रहो द्वैधं, व्यञ्जनार्थप्रभेदतः ॥ १६ ॥ ईहाप्रभृतयस्तु स्यु-बर्थस्यैवाद्यवग्रहः।। स्पर्शजिह्वाघ्राणकर्ण-प्रभेदेन चतुर्विधः ॥ १७ ।। चक्षुर्मनोविधाधिक्यात्, षोढार्थ वग्रहादयः । द्वादशधा पुनः सर्वे, प्रत्येकं परिकीर्तिताः॥१८॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48