Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah

View full book text
Previous | Next

Page 33
________________ (४) ॥ श्रुतं पूर्वभवाभ्यस्तं, विस्फुरत्यधिकं सदा । यस्यैश्वर्य समैश्वर्य, सौभाग्यं जगदद्भुतम् ॥ ५ ॥ तं सर्वोत्कृष्टमवीर्य, सद्गुरुं शिवदायकम् । दर्शन ज्ञानचारित्र-समृध्ध्युत्कर्षशालिनम् ॥ ६ ॥ संयमश्रेणिमध्यस्थं योगसाम्राज्यशोभिनम् । आचार्य नेमिसूरीशं, भत्तया म्तवीम्युदारया ॥७॥ जल्पन गुणानसद्भूता-नन्यं स्तौति जनं जनः । सतोऽपि तांस्तु ते ववतु-मक्षमोऽहं कथं स्तुवे ॥८॥ बुधैरप्यपरिज्ञेय-गुणं त्वां स्तोतुमीश्वरः । कास्यात्तथाप्यहं स्तौमि, व्युल्लसद्बालचापलः॥ ९॥ किश्चाज्ञतामवज्ञाय, निजस्य त्वां स्तवीम्यहम् । यन्मां वाचालयत्येषा, त्वयि भक्तिरवारणा॥१०॥ नायुक्तत्वं गमिष्यामि, स्तुवंस्त्वामल्पधीरपि । अव्यक्ता अपि बालानां, युक्ता एव गुरौ गिरः११॥ तवानुभाव एवायं, समस्तोऽपि सुनिश्चितम् । तव प्रसादविख्याताः, के वयं परमार्थतः ॥ १२ ॥

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48