Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah
View full book text
________________
( १२ )
कल | कलापविज्ञा ये, सर्वशास्त्रविशारदाः । ते सर्वेऽप्यात्मभक्त्या ते, किङ्करत्वमुपागताः ॥ ६८ ॥ मेदपाटनरेशोऽपि यत्त्वां स्तवीत्यहर्निशम् । तत्त्वत्पुण्यस्य साम्राज्यं, के न जानन्ति सद्धियः ॥ ६९ ॥ सहस्रांशुरिव स्वाभ, चन्द्रमाश्चन्द्रिका इव । क्षणमप्यात्मनस्त्वं नु न मुञ्चस्यप्रमत्तताम् ॥ ७० ॥ त एव कृतिनो लोके, त एवाभ्युदयान्विताः । त एव भवकान्तारो - लङ्घने सन्ति पण्डिताः ॥ ७१ ॥ तव पञ्चविधाचार - व्यवहारनतशालिनः । नाथ ये पादपद्मस्य सेवनां कुर्वतेतराम् ॥ ७१ ॥
समस्तमुत्तमं नाथ, : वर्त्तते तव सुन्दरम् | सद्बुद्धिलेश हीनोऽहं तत्र किंवर्णनक्षमः ॥ ७३ ॥
"
तथापि भक्तिरोगेण, पूज्ययोस्तव पादयोः । प्रेरितेन स्तुतं किञ्चि - द्विक्षुणा बालबुडिना ॥ ७४ ॥ धन्यः सौराष्ट्रदेशः स - धन्या मधुपुरी पुरी । या वया जन्मना नाथ--बन्धुरा पावनीकृता ॥ ७५ ॥

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48