Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah
View full book text
________________
(१५) शौचसन्तोषपूर्णाय, भुवनालादकारिणे । गाम्भीर्येण समुद्राय, नमः श्रीनेमिसूरये ।। ९२ ॥ त्रैलोक्यवन्दनीयाय, भोगतृष्णाविघातिने । महानन्दनिवासाय, नमः श्रीनेमिसरये ॥ ९३ ॥ कल्पद्रमाय काम्यार्थे, स्तुत्याय तत्त्ववेदिभिः । रम्याय शुद्धयोगेन, विख्याताय सदा भुवि ॥ ९४ ।। जन्मव्यसननाशाय, यमिभिः सेविताछये । स्यत्सुधातुलवाचाय, शिवाय शिवदायिने ॥ ९५ ॥ वर्याराधनमाप्ताय. मानां मुकुटाय च । स्तुत्यपादाब्जयुग्माय, नमः श्रीनेमिसूरये ॥ ९६ ॥ स्तम्भतीर्थे महातीर्थे, बम्बावत्यपराभिधे । श्रीपार्श्वेशप्रसादेन, भूरिसौभाग्यपूरणे ॥ ९७ ॥ नवपकनिशानाथै-मिते संवत्सरे शुभे । मृगशीर्षे सिते पक्षे, सम्प्राप्ते दशमीदिने ॥ ९८ ॥ राजनगरमुख्येभ्यः पुरेभ्यो भक्तिशालिषु। . श्रेष्ठिवर्गष्वनेकेडु, मीलितेषु समुत्सवम् ॥ ९९ ॥

Page Navigation
1 ... 42 43 44 45 46 47 48