Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah

View full book text
Previous | Next

Page 36
________________ अष्टाङ्गयोगकौशल्य-मष्टसिद्धिप्रवीणता। अष्टाङ्गयोगदृष्टेश्व, नैपुण्यं ते महाद्भुतम् ॥ २९ ॥ एकादशाङ्गविज्ञत्वं, बादशोपाङ्गवेदनम् । छेदसूत्रेषु दक्षत्वं, कस्य दृष्टं त्वया विना ॥ ३० ॥ पूर्वाचार्यक्रमायात-शुद्धाचारनिषेवकः । सामाचारीसमायुक्तः, समाधिस्थानसंस्थितः ॥३१॥ द्वादशभावनोद्युक्तः, सक्लेशदशकोज्झितः । अकल्प्यषकटनिर्मुक्तो-रतः संवेगसागरे ॥ ३२ ॥ बाह्याभ्यन्तरग्रन्थ--त्यागी निग्रन्थपुङ्गवः । प्रभावकश्वनिस्तन्द्रः, षट्सु कायेषु यत्नवान् ॥ ३३ ॥ प्रज्ञप्त्यादिमहायोगो-बहनं प्रविधाय वै। समाराधा महामन्त्र, सूरिमन्त्रमनुत्तरम् ॥ ३४ ॥ सुघनपामिनः पट्ट-पारम्पयसमागतम् । प्राप्तवांस्त्वं पदं सूरेः, सावंसंघशिरोमणिः ॥ ३५ ॥ तथाभूः सर्वविद्वद्भिः, सेवितस्य सदा मुदा । निग्रन्थप्रथमाख्यस्य, तपोगच्छस्य नायकः ॥३६॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48