Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah
View full book text
________________
( १८ )
वेद्यं च मोहनीयं चा- युष्क च नाम गोत्रकम् | विघ्नं चाष्टममाख्यातं शुभाशुभमिति द्विधा ॥ १०३ कार्मणवर्गणाजात - मिदं पौगलिकं मतम् । औदादिकारिभेदेन, वर्गणाष्टविधा मता ॥ १०४ ॥ प्रकृत्यादिविधाभिश्च चतुर्धा कर्म कीर्तितम् | मिथ्यात्वाविरतियांग- कषायाश्चेति बन्धकाः १०५
,
प्रकृत्यां च प्रदेशे च कारणं योग आहितः । अनुभागे स्थिता च स्यात्, कषायाः कारणं किल
यथासम्भवमेतेषा मष्टधा करणं मतम् ।
एतेषामुदयादिः स्याद्, द्रव्यक्षेत्रादिभेदतः ॥ १०७
-
ज्ञानदर्शनचारित्र प्रभृतिः स्याद् यथायथम् । क्षयोपशान्तिभावेन, चैतेषामेव कर्मणाम् ॥ १०८ ॥ चतुर्विधा अमुक्ताः स्यु- नीरकादिप्रभेदतः । रत्नप्रभादिभेदेन, नारकाः सप्तधा मताः ॥ १०९ ॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48