Book Title: Jain Muktavali Suristava Shatakam Cha
Author(s): Muninandanvijay
Publisher: Mansukhbhai Maneklal Shah
View full book text
________________
ततश्च विततश्चैव, घनश्च शुषिरस्तथा । सङ्घर्षश्चाथ भाषा च स्यात् षोढेति प्रयोगजः १३१ चतुर्भदाश्च तत्र स्यु- विमुच्यान्तिमयुग्मकम् । पुद्गलानां परिणामः, सङ्क्षेपादित्युदाहृताः १३२ एवं छायातपोद्योता. दयोऽप्यागमवेदिभिः । पुद्गलानां परिणाम- विशेषाः परिकीर्तिताः ॥१३३ अथ निरूप्यते कालो, वर्तनालक्षणः स च । परिणामा नव प्राणा-वत्तंना त्वभिधीयते ॥१३॥ सार्बुद्वीपहयाम्भोधि- द्वैतमानः स कीर्तितः । एक एवास्त्ययं कालो. वर्तमानः स वास्तवः १३५ कल्प्यन्ते व्यवहारार्थ, पुनरावलिकादयः । समयानामसख्याना- मेका साऽभिहिता बुधैः१३६ समयस्त्वविभाज्योऽति- सूक्ष्मः कालः समीरितः। द्रव्यपीयरूपे। वा, सेऽभिरूपैः प्रकीर्तितः ॥ ३७॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48