Book Title: Hemchandrashabdanushasanam
Author(s): Hemchandracharya, Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan

Previous | Next

Page 7
________________ श्री सद्गुरुदेवाय नमः । श्री सद्गुरुः शरणम् । पूज्यपाद अनन्तउपकारी गुरुदेव मुनिराज श्री १००८ भुवनविजयजी महाराज ! बहुपुण्याश्रितं दत्त्वा दुर्लभं नरजन्म मे । लालनां पालनां पुष्टिं कृत्वा वात्सल्यतस्तथा ।।१।। वितीर्य धर्मसंस्कारानुत्तमांश्च गृहस्थितौ । भवद्भिः सुपितृत्वेन सुबहूपकृतोऽस्म्यहम् ।।२।। ततो भवद्भिर्दीक्षित्वा भगवत्त्यागवर्त्मनि । अहमप्युद्धृतो मार्ग तमेवारोह्य पावनम् ।।३।। तत: शास्त्रोक्तपद्धत्या नानादेशविहारतः । अचीकरन् भवन्तो मां तीर्थयात्रा: शुभावहा: ।।४।। अनेकशास्त्राध्ययनं भवद्भिः कारितोऽस्म्यहम् । ज्ञानचारित्रसंस्काररुत्तमैर्वासितोऽस्मि च ।।५।। ममात्मश्रेयसे नित्यं भवद्भिश्चिन्तनं कृतम् । व्यापताश्च ममान्नत्ये सदा स्वाखिलशक्तयः ।।६।। ममाविनयदोषाश्च सदा क्षान्ता दयालुभिः । इत्थं भवदनन्तोपकाररुपकृतोऽस्म्यहम् ।।७।। मोक्षाध्वसत्पान्थ ! मुनीन्द्र ! हे गुरो ! वचोऽतिगा व: खलु मय्युपक्रिया: । असम्भवप्रत्युपकारसाधना: स्मृत्वाहमद्यापि भवामि गद्गदः ।।८।। तत्रभवदन्तेवासी शिशुर्जम्बूविजयः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 449