Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 9
________________ स्वोपघातकाः ? ।। ९६ ।। ददता वसुधां तस्मै तापसाय दुरात्मने । देशाद् देशप्रवासो हि स्वीकृतो भूभुजा स्वयम् ||९७॥ | यदन्येनाऽदृष्टचरो वराहं कोऽप्यवेदयत् । भृभुजे तद् ध्रुवं किञ्चिद् दिव्यमेतद् विजृम्भितम् ।। ९८ ॥ अविमृष्टायतिर्भूपः क्षीयते न्यायवानपि । अत एव विमृष्टारः सन्निधेयाः सुमन्त्रिणः ।। ९९ ।। किं कुर्मो दुर्धियः कुर्युर्यत् किञ्चन महीभुजः । तत्तत्प्रतिक्रियाव्ययैः क्लिश्यते सचिवैः पुनः ॥ १०० ॥ विमृश्यैवं तदामात्यः सशल्य इव निःश्वसन् । विलासमण्डपेऽह्नाय सचिन्तो नृपतिं ययौ ॥ १०२ ॥ नत्वोपविष्टे तस्मिंश्च मत्रिणि प्राह भूपतिः । वराहाऽऽवेदकस्याग्रे प्रतिज्ञातमकृमहि ।। १०२ ।। मन्त्रयाह देव ! तत् सर्वं वृत्तान्तं ज्ञातवानहम् । राज्ञोचे सस्मितं तर्हि कुन्तलस्तद् न्यवेदयत् ॥ १०३ ॥ मन्त्री प्राह विभो ! कस्य प्रभुत्वं न मुदे भुवि । अनौचित्यमपि स्तौति यत्रौचित्यमिवानुगः ॥ १०४ ॥ किन्तु विज्ञपयियामि कर्णयोः कटु किञ्चन । नाथाऽयं वसुधात्यागो नहि मे प्रतिभासते ।। १०५ ॥ राज्ञोचे सत्यं किन्त्वेतद् युक्तं नो युक्तमेव वा । प्रारम्भाद् युज्यते पूर्व निर्वाहोऽङ्गीकृते पुनः ॥ १०६ ॥ किञ्च यान्तु श्रियो नाशं प्रयातु निधनं कुलम् । प्रवासो वास्तु निर्वाहः प्रतिज्ञाते भवेद् यदि ॥ १०७ ॥ अलं तदेतया पूर्वकृतमीमांसयाऽधुना । स्वर्णलक्षं हि ढौकस्व स्वेनाऽयातिमुनिर्यतः ।। १०८ ।। ततः सशिष्यः स मुनिः कुर्वन्नागाद् नृपस्तुतिम् । अहो ! अगोवरे वाचां राज्ञोऽस्य चरितं महत् ।। १०९ ।। पूरोभूय नृपस्याऽसौ सकोप इव मायया । अयाचत स्वशिष्येण स्वर्णलक्षं महीपतिम् ॥ ११०॥ नृपाऽऽदेशादथादिशत् स मन्त्री कुन्तलं ततः । सोऽपि स्वर्ग समादाय मुमोच नृपतेः पुरः ||१११ । । राज्ञोक्तः सचिवस्तस्मै तापसाय ह्युपानयत् । सोऽपि वीक्ष्य किमेतद् भोः ! पप्रच्छेति नृपं मुनिः ॥ ११२ ॥ राज्ञोचे वञ्चनास्वर्ण, कुत एतन्मुनिर्जगौ ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32