Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
श्रीहरिश्चन्द्र ॥ ८ ॥
सुतारायां रोहिताश्वोऽश्वलेऽलगत् ॥ २४६ ॥ रुदतीदं सुताराऽऽह तिष्ठ त्वं पितुरन्तिके । आनेतुं मोदकं तुभ्यं वत्स ! यान्त्यस्मि सम्प्रति ॥ २४७ ॥ अमुञ्चत्यञ्चवले तस्मिन् मुहुर्मात्राऽपि बोधिते । भृतिके किं विलम्बोऽयमिति क्रुद्धो द्विजोऽवदत् ॥ २४८ ॥ सुतारां समयं यान्तीं यावद् मुश्चति नार्मकः । तावत् करतलेनैतमाहत्याऽपातयद् द्विजः || २४९ ।। संबाष्पं पुनरुत्थाय मातुर्वस्त्राश्चलेऽलगत् । पुनर्द्विजेन भूमौ स पादेनाऽऽहत्य पातितः ।। २५० ।। राजा सास्रं ततो दध्यौ धिगापदमिमां मम । इन्द्रस्याऽप्यङ्कलाल्योऽयं पदा विप्रेण हन्यते ।। २५१ ॥ ततः प्रोचे नृपो विप्र ! न तिष्ठेद् मातरं विना । शिशुः किमपि ते कर्म कर्ता क्रीणीह्यमुं ततः ।। २५२ ॥ नैतं सुधाऽपि गृह्णामीत्यूचानं द्विजमब्रवीत् । सुताराssर्य ! गृहाणैनं विधाय मय्यनुग्रहम् ॥ २५३ ॥ विप्रोऽपि कृपया स्वर्णसहस्रं तस्य वेतने । कृत्वा दत्त्वा च राज्ञे, तावादाय स्वगृहं ययौ ॥ २५४ ॥ राजा दध्यौ न लप्स्येऽहं पुरे वासं ततो मुनिः । यद्येति स्वर्णमेतस्मै दत्वा स्यामकुतोभयः ॥ २५५ ॥ ततः कुलपतिः कुर्वन्नाज्ञामित्र समाययौ । कोपात् पराङ्मुखीभूय प्रोचे द्राग् देहि हेम मे ।। २५६ ।। गृहाण कियदप्येतदित्युक्ते भूभुजा मुनिः । उवाच कुपितस्त्वैतद् ग्रहीष्येऽल्पं न काञ्चनम् ॥ २५७ ॥ मासोपरि गताः पञ्च दिना यदि तदाऽपि हि । कियदेव ब्रुवाणस्त्वमदृश्यास्य ! न लञ्जसे ॥ २५८ ॥ दध्यौ राजाऽधमर्ण धिगुत्तमर्णस्य दुर्गिरः । यः सहन्नपि भूयोऽपि तं प्रीणयति चाडुभिः ॥ २५९ ॥ ऊचे च भगवन्नेव काऽपि मे चित्तदुष्टता । विक्रीय दयिता-पुत्रो यत् प्राप्तं तत् समर्पये ॥ २६० ॥ ऊचेऽङ्गारमुखो मूर्ख ! राजानं प्रार्थय द्रुतम् । चन्द्रशेखरमत्रत्यं किं विक्रीतौ प्रिया-सुतौ ? || २६१ ॥ राजाऽऽख्यत् किमिदं | ब्रूषेऽनुचितं सत्वशालिनाम् । शतशो हि पराभूतान्नाहं प्रत्यर्थिनोऽर्थये ॥ २६२ ॥ प्रतिज्ञाभ्रष्ट ! वाचाट ! पुरो नः स्वं
कथानकम् ।
॥ ८ ॥

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32