Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 30
________________ श्रीहरिश्चन्द्र कथानकम् ॥१४॥ ॥४४४ ॥ सुताराऽपि च तदभिप्रायं स्फुटमजानती । उच्चिक्षप करे दातुं रोहिताश्वं मुहुर्मुहुः ॥ ४४५ ॥ अगृह्णति हरिश्चन्द्रे पुत्रं साऽऽह ब्रवीषि किम् ? । न जानामि तवैतां हि संज्ञां ब्रूहि ततः स्फुटम् ॥ ४४६ ॥ धैर्यसंदंशकाकृष्टवचनः सात्विकोऽवदत् । देवि ! तिष्ठतु वत्सोऽयं वत्साऽऽच्छादनमर्पय ॥ ४४७ ॥ यावदेवं हरिश्चन्द्रो वदत्यात्मप्रियां प्रति । तावत् तस्य शिरस्याशु पुष्पवृष्टिरभूद् दिवः ॥ ४४८ ॥ अहो ! सत्त्वमहो ! धैर्य हरिश्चन्द्रमहीपतेः। एवमुद्घोषणापूर्व दुन्दुभिध्वनिरत्यभूत् ॥ ४४९ ॥ राजाऽप्यपश्यदात्मानमयोध्यायां निजौकसि । अलङ्कतमहासिंहासनं स्वसदसि स्थितम् ॥ ४५० ॥ रोहिताश्वमपश्यच्च क्रोडे | क्रीडन्तनात्मनः । अश्रान्तकान्तिरत्नाङ्कहारस्फारश्रियं मुदा ॥ ४५१॥ वसुभूति महामात्यं कुन्तलाख्यं च सेवकम् । द्वावप्येतो स्वस्वरूपौ पुरोऽद्राक्षीत् कृताञ्जली ॥ ४५२ ॥ यवनिकान्तरे चैव द्रष्टुं नाटकमागताम् । सुतारां भाषमाणां च सख्या शुश्राव भूपतिः ॥ ४५३ ॥ पुरतश्च सुसङ्गीतरसनिर्मग्नचेतसाम् । नृपा-ऽमात्यप्रभृतीनामपश्यत् संसदं निजाम् ॥ ४५४॥ प्रतिमन्दिरमैक्षिष्ट क्रियमाणं च नागरैः । नृत्यत्पुरन्धिविश्राण्यमानदानमहोत्सवम् ।। ४५५ ।। प्रतीहारमुखप्राप्तान विजिज्ञपयिषून् जनान् । दूरतो नमतः प्रेक्ष्य किमित्येतदचिन्तयत् ॥ ४५६ ॥ किं नु स्वप्नो मया दृष्टः किं वा मे मनसो भ्रमः । किं वा कस्याऽपि देवस्य-चित्रमेतद् विजृम्भितम् ॥ ४५७ ।। ततश्च प्रकटीभूय चन्द्रचूड-मणिप्रभौ । पुरः स्थित्वा सुरौ राज्ञः सहर्षमिदमूचतुः ॥ ४५८ ॥ त्रिशङ्खनन्दन ! श्रीमदिक्ष्वाकुकुलमण्डन ! भरतान्वयभूपाल ! हरिश्चन्द्र ! चिरं जय ॥४५९॥ धन्यः सुग्राह्यनामा त्वं यस्य वास्तोष्पतिः स्वयम् । सत्त्वं स्तवीति मूर्धानं धुनानो द्युसदां पुरः ॥ ४६० ॥ यादृशः कथितो राजन्नचाल्यो धुसदा. मपि । शक्रेण, ताडगेवाऽसि सात्त्विकेषु शिरोमणिः ॥ ४६१ ॥ माहात्म्येन तवैवेदं पुना राज्यं तथैव हि । अढौकत निज ॥१४॥

Loading...

Page Navigation
1 ... 28 29 30 31 32