Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मीहरिश्चन्द्र
कथानकम्।
॥११॥
॥ ३४४ ॥ उदतारयदेनां च रासभाद् वनितां ततः । इति सर्व विसृज्याऽथ नृपः पल्यङ्कमासदत् ॥ ३४५ ॥ हरिश्चन्द्रोऽपि सूर्येऽस्ते चाण्डालस्य नियोगतः। ब्रजन् श्मशानं दध्यौ भोः ! कीदृग् दुर्दैवनाटकम् ? ॥ ३४६ ॥ देव्याः कर्मकरीत्वेन स्थिताया विप्रसद्मनि । राक्षसीवचनं कीरो देवदत्तं न्यवर्तयत् ॥ ३४७ ॥ दैवमेव ततो मन्ये बलवन्नापरः पुनः । यत् तेन विहिता ह्यापत् तेनैव हि निवर्त्यते ॥ ३४८ ॥ तमस्यसूचीभेद्येऽपि प्रविशनिर्भयो हरिः । ददर्श भीषणाकारं श्मशानं निशि सर्वतः ॥३४९।। क्वचित् फेरण्डफेत्कारं क्वचिद् राक्षसडम्बरम् । क्वचिद् विभीषिकोद्योतं क्वचित् कौशिकवासितम् ॥३५०॥ क्वचित् प्रेतपरित्रस्तशवसंस्कारकृञ्जनम् । क्वचिच्च डाकिनीमुच्यमानोत्किलकिलारवम् ॥३५१॥ क्वचित् कापालिकैह्यमाणसत्पुण्यमस्तकम् । सर्वतोऽपि च दुर्गन्धपूरपुरितनासिकम् ॥ ३५२ ॥ उपर्युपरि पर्यस्तमुण्डतुण्डस्खलद्गमम् । इतस्ततः श्मशानं स पश्यत शुश्राव दुर्ध्वनिम् ॥ ३५३ ॥ अहो ! आर्त्तध्वनिः सैषा मृतपत्याः स्त्रियाः खलु । रुदतीं वारयाम्येनामित्यगात् तत्पुरो नृप ! ॥३५४॥ उवाच च शुभे! किं ते कारणं परिदेवने ? । साऽऽह पश्याऽग्रतो गत्वा न्यग्रोधे कारणं मम ॥३५५।। हरिर्गत्वा ततोऽपश्यत् पुमांसं पूर्णलक्षणम् । ऊर्ध्वपादमधोवक्त्रं वटशाखानियन्त्रितम् ।। ३५६ ॥ सोढाऽहं पुरुषः कान्ते ! त्वं पुनर्भाविनी कथम् ? । तत्प्रलापमिति श्रुत्वा दध्यौ राजाऽस्य सा प्रिया ॥३५७॥ अस्योपकारं कुर्वे यद् दत्ता भूर्मुनये मया । मुनिकन्याधनोपाये विक्रीतौ दयितासुतौ ।। ३५८ ॥ जीवितस्याऽस्य निर्विणः स्वयमेव पुराऽस्म्यहम् । कृत्वा परार्थ चेद् यामि तत् किं नातं फलं मया ? ॥ ३५९ ॥ इति ध्यात्वा हरिः प्रोचे तमुद्वद्धं नरं मृदु । अहो ! कस्त्वं कथं चेयमवस्था ते सुदुःसहा ? ॥३६०॥ जाननस्मीति यद् वक्तुमुद्वद्धन न शक्यते । परं त्वदाकृतिः पुण्या प्रयुङ्क्ते प्रष्टुमत्र माम् ॥ ३६१ ॥

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32