Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 17
________________ सत्यं जाताऽस्मि दुर्जना || २२९ ॥ सरसीव पयः पूर्णे सर्वमृद्धौ समं भवेत् । नैःस्व्ये स्व- परयोर्भेदः शुष्केऽस्मिन्नुच्च - नीचवत् ॥ २३० ॥ किञ्च - वरं मृत्युर्वरं भिक्षा वरं सेवाऽपि वैरिणाम् । दैवाद् विपदि जातायां स्वजनाऽभिगमो न तु ॥ २३१ ॥ अपिच-सा सती या हिया भर्तुः सम्मुखे दिवसेऽनुगा । तनुच्छायेव धैर्येण प्रतीपेऽस्मिन् पुरो भवेत् ॥ २३२ ॥ इतश्र ब्राह्मणः कोऽपि वीक्षमाण इतस्ततः । भृतिकां काञ्चिदायासीदुपभूपं स उन्मुखः ।। २३३ || दृष्ट्वा च भूपमापादमस्तकं चक्रिलक्षणम् । ऊचे कस्त्वं कथं देहं श्रीगेहं भृतकीयसि १ ॥ २३४ ॥ शुचाऽऽत्तमौनं भूपालमालप्याऽगच्छदग्रतः । दृष्ट्वा सुतारां सास्रोऽभूदुच्चैर्दैवं निनिन्द च ।। २३५ || रतेरपि शिरोरत्नमेतां निर्माय सुन्दरीम् । कथं नयसि रे ! दैव ! हन्त ! दास्यविडम्बनम् ॥२३६॥ यतः - स्निग्धमङ्गं सतीरुपं सुवर्णं साधुभाषितम् । धत्ते किमपि लावण्यमसंस्कृतमपीतरत् ॥ २३७॥ सुतारायाः पुरः पुण्यं रोहिताश्वं सुलक्षणम् । दर्भाङ्कशिरसं प्रेक्ष्य धिक् शास्त्रमिति सोऽब्रवीत् ॥ २३८ ॥ शास्त्रेषु लक्षणानीह कथ्यन्ते यानि कानिचित् । सन्ति सर्वाणि तान्येषामवस्था पुनरीदृशी ॥ २३९ ॥ नृपः स्वानुभवं प्राह मा मैवं त्वं द्विज ! ब्रवीः । शास्त्रं हि मृषाभाषि किन्तु मे कर्मवैभवम् ॥ २४० ॥ पूर्वे जन्मनि यश्चक्रे ददतामदतां स्वयम् । श्रेयश्च कुर्वतामन्तरायः स इह भुज्यते ॥ २४९ ॥ तद्वशादीदृशी चेत् तेऽवस्थैषा तच्छुचाऽत्र किम् । सर्वं विषहमाणो हि कर्मभिर्मुच्यते जनः ॥ २४२ ॥ किमस्या मूल्यमित्युक्ते ब्राह्मणेन मुहुर्मुहुः । कथञ्चिद् रुद्धवाष्पोऽथ राजाऽख्यदुचितं हि यत् ॥ २४३ ॥ ततः स्वर्णसहस्राणि पश्चाऽस्या मूल्यमस्तुः भोः ! । वदतीति द्विजे राजा लज्जया धोमुखोऽभवत् ॥ २४४ ॥ अनिषिद्धमनुज्ञातमिति विप्रे नृपाश्ञ्चले । स्वर्णं बध्नाति राजाख्यद् मोक्षोऽस्या द्विगुणेन भोः ॥ २४५ ॥ तत् प्रपद्य द्विजः प्राह सुतारामग्रतो भव । चलितायां

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32