Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
| न यत्रोपलक्ष्यसे ? ॥ १६३ ।। राज्ञोक्तं मे भुवं मुश्च त्वमितीदं कियद् वचः । हन्त ! पूरयितुं सन्धां त्यजन्तीक्ष्वाकवो ह्यसून् ॥ १६४ ॥ ततोऽपवार्य ते प्रोचुस्तापसा मुदिता मिथः । अहो ! सत्त्वमहो ! सचमहो! साचिकसूश्च भूः ॥ १६५॥ देव्याह किमिदं मन्त्रिमरिष्टं नः समापतत् । सोप्याह किमिदं वेनि दैवं पृच्छ नृपप्रिये ! ।। १६६ ॥ विमृश्याह नृपो देवी गच्छान्तः पुरमात्मनः । सुताराऽऽह समेष्यामि युष्माभिः सार्धमप्यहो! ॥ १६७ ।। सास्रं प्राह नृपो देवि ! सुकुमार शिशुः सुतः । पन्थानो विषमास्तत् त्वं तिष्ठाऽत्रैव व्रजाम्यहम् ।। १६८ ॥ सावष्टम्भं सुताराऽऽह यद् भाव्यं तद् भवत्विह । आगमिष्याम्यहं साधं त्वया च्छायेव निश्चितम् ॥ १६९ ॥ पतिव्रते ! क्व चलिताऽसीत्युक्ते मुनिनाऽऽह सा । प्रवासे सह नाथेन येन पत्यनुगाः स्त्रियः ।। १७० ।। ममायत्तां हरिश्चन्द्रो नेष्यते त्विदमद्भुतम् । इत्युक्ते मुनिना प्राह वसुभूतिः क्रुधा ज्वलन् ॥ १७१ ॥ अरे ! तापस ! नासि त्वं विज्ञो लोकस्थितेः खलु । विद्धीदानी स्त्रियो भर्तृदेवता न परात्मिकाः ॥ १७२ ॥ यत् प्राह व्यवहारज्ञस्त्वन्मन्त्री तत्र ते मतम् । इत्युक्ते तापसेनाह राजाऽपि मुनिपुङ्गवम् ।। १७३ ॥ मम स्त्रैणस्य पौत्रस्य देशकोशा-ऽश्व-हस्तिनाम् । किमन्यद् देव्याः पुत्रस्य त्वमेव स्वाम्यतः परम् ।। १७४ ॥ तत् त्वं चेन्मन्यसे देवी तदायातु मया सह । देव्याह विसृज त्वं मां मुने! स प्राह याहि तत् ।। १७५ ॥ किन्तु मुक्त्वाऽऽभरणानि यातेति मुनिनोदिते । मुमोच नृपतिः सर्व नेपथ्यं मुकुटादिकम् ॥ १७६ ॥ सुताराऽऽह पुनः किश्चिदस्त्ववैधव्यलक्षणम् । भूषणं भगवन्नेव निशम्य मुनिरब्रवीत् ॥ १७७ ॥ तव भद्रे ! हरिश्चन्द्र एवाऽवैधव्यलक्षणम् । इति वाचि मुनौ साम्रा सुताराऽप्यभवत् ततः ॥ १७८ ॥ मन्त्री प्राह मुनि कोपादरेरे ! ब्रह्मराक्षसः!। नृपोऽविज्ञोऽददत् ते मां, किं वा गृहन्नितो भवान् ॥ १७९ ॥ क्रुधा प्रोचे मुनि

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32