Book Title: Gurupad Puja
Author(s): Ajitsagarsuri
Publisher: Shamaldas Tuljaram Shah
View full book text
________________
८७
अव्यक्तार्थप्रबोधं विमथितमदनं धर्मतश्वमदानं, विद्यारण्याम्बुधारां समधिगतसुखं साधितार्थप्रमाणम् । सच्चित्तानन्दगेहं जननमृतिहरं मृत्युपारं प्रयातं, बुद्धयब्धि सूरिवर्यं स्मरत भविजनाः ! सद्गुरुं दिव्यरूपम् ||२|| रे रे ! भव्यात्मलोकाः ? श्रयत पदयुगं यस्य सिद्धान्तभाजः । मोक्षस्वर्गार्थदायं विविधसुखमयं सर्वसंपत्तिराजः । छिन्नाऽनर्थप्रतानं कविकुलतिलकं भूरिलोकगीतं, बुद्धधिसूवि स्मरत भविजनाः ? सद्गुरुं दीव्यरूपम् ॥३॥
श्रीमद्विद्या पुरस्था नरयुवतिगणाः कीर्त्तिपीयूषसारं, पीत्वा पीत्वा निकामं सुखरतिमगमन् दिक्षु लोकाश्च यस्य; लोकालोकप्रभावं सदतुलविभवं सिद्धिशर्मैकधाम, बुद्धयन्धि सूरिव स्मरत भविजनाः सद्गुरुं दीव्यरूपम्॥४॥ गीता गीतार्थयुक्ता श्रितनिगमनया येन सा कृष्णगीता, fasaण सारा विलसति वसुधामण्डले मोदमाला । योगाङ्गज्ञानवित्ता सुरचितघटना भिन्नकर्मप्रभावा, बुद्धयन्धि सूरिवर्यं स्मरत भबिजनाः सद्गुरुं दीव्यरूपम् ॥ ५ ॥
दर्श दर्श प्रभावं भवभयहरं यस्य सूरीश्वरस्य, श्रावं श्रावं यदीयां भजनविरंचनां निर्ममत्वार्थबोधम् । स्मारं स्मारं च शैलीं गुणगणविदितां तुष्टिमन्तः समस्ता, - बुद्धयधिसूविर्ये स्मरत भविजनाः सद्गुरुं दीव्यरूपम्॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122