Book Title: Gacchachar Prakirnakam
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
गच्छाचारपइण्णयं
सूत्रार्थधारको देववाचको योग्यविनेयपरीक्षां कृत्वा सम्प्रत्यधिकृताध्ययनविषयस्य ज्ञानस्य प्ररूपणां विदधाति । 'नाणं पंचविहं पण्णत्तं' इत्यादीति' ननु यद्येवं तर्ह्यत्र गौतमप्रश्न श्रीमन्महावीरनिर्वचने न सम्भवतः ? उच्यते, सत्यम्, परं प्रायः सर्वत्र गणधर प्रश्नतीर्थकरनिर्वचनरूपं सूत्रम्, अतो भगवान् गच्छाचारप्रकीर्णककर्त्तापीत्थमेव सूत्रं रचयति स्मेति । ननु प्रकीर्णकमिति कोऽर्थः ? १ कानि वा प्रकीर्णकानि ? २ कतिसङ्ख्यानि वा तान्येकैकस्य तीर्थकृत आसीरन् ? ३ कैर्वा विरचितानीति ? ४ उच्यते, इह यद् भगवदर्हदुपदिष्टं श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, 'अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि प्रकीर्णकं १ | कानीति प्रश्ने यानि अङ्गबाह्यानि दशवैकालिकोत्तराध्ययनादीन्युत्कालिककालिक भेदभिन्नान्यध्ययनानि तानि सर्वाण्यपि प्रकीर्णकानि २ । सङ्ख्याप्रश्ने चतुरशीतिप्रकीर्णकसहस्राणि ऋषभस्वामिनः सङ्ख्येयानि प्रकीर्णकसहस्राण्यजितादितीर्थकृताम्, चतुर्दश प्रकीर्णकसहस्राणि भगवतो वर्द्धमानस्वामिनः, अपरिमाणानि वा एकैकस्य तीर्थकृतस्तीर्थे ३ । कैर्वाविरचितानीति प्रश्ने तु ये ऋषभादितीर्थकरकाले श्रमणाः प्रधानसूत्रविरचनशक्तिसमन्विता आसीरन, ये वा ऋषभादितीर्थकरतीर्थश्रमणाः प्रधानसूत्रविरचनशक्तिसमन्विताः ये वा प्रत्येकबुद्धास्तैर्विरचितानि प्रकीर्णकानीति ४, उक्तं चैतदर्थसंवादि श्रीनन्दिसूत्रश्रीमलयगिरिकृततद्वृत्योः तत्र सूत्रं यथा - अहवा तं समासओ दुविहं पं० तं० अंगपविट्टं अंगबाहिरं च 1 से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पं० तं० आवस्सयं च आवस्सयवइरित्तं च से किं तं आवस्सयं २ छव्विहं पं० तं० सामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिक्कमणं ४ काउस्सग्गो ५ पच्चक्खाणं ६ से तं आवस्सयं । से किं तं आवस्सयवइरित्तं २ दुविहं पं० तं० कालिअं उक्कालिअं च । से किं तं उक्कालिअं २ अणेगविहं
,
७
1

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 358