________________
गच्छाचारपइण्णयं
सूत्रार्थधारको देववाचको योग्यविनेयपरीक्षां कृत्वा सम्प्रत्यधिकृताध्ययनविषयस्य ज्ञानस्य प्ररूपणां विदधाति । 'नाणं पंचविहं पण्णत्तं' इत्यादीति' ननु यद्येवं तर्ह्यत्र गौतमप्रश्न श्रीमन्महावीरनिर्वचने न सम्भवतः ? उच्यते, सत्यम्, परं प्रायः सर्वत्र गणधर प्रश्नतीर्थकरनिर्वचनरूपं सूत्रम्, अतो भगवान् गच्छाचारप्रकीर्णककर्त्तापीत्थमेव सूत्रं रचयति स्मेति । ननु प्रकीर्णकमिति कोऽर्थः ? १ कानि वा प्रकीर्णकानि ? २ कतिसङ्ख्यानि वा तान्येकैकस्य तीर्थकृत आसीरन् ? ३ कैर्वा विरचितानीति ? ४ उच्यते, इह यद् भगवदर्हदुपदिष्टं श्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्व प्रकीर्णकमुच्यते, 'अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषु ग्रन्थपद्धतिरूपतया भाषन्ते तदपि प्रकीर्णकं १ | कानीति प्रश्ने यानि अङ्गबाह्यानि दशवैकालिकोत्तराध्ययनादीन्युत्कालिककालिक भेदभिन्नान्यध्ययनानि तानि सर्वाण्यपि प्रकीर्णकानि २ । सङ्ख्याप्रश्ने चतुरशीतिप्रकीर्णकसहस्राणि ऋषभस्वामिनः सङ्ख्येयानि प्रकीर्णकसहस्राण्यजितादितीर्थकृताम्, चतुर्दश प्रकीर्णकसहस्राणि भगवतो वर्द्धमानस्वामिनः, अपरिमाणानि वा एकैकस्य तीर्थकृतस्तीर्थे ३ । कैर्वाविरचितानीति प्रश्ने तु ये ऋषभादितीर्थकरकाले श्रमणाः प्रधानसूत्रविरचनशक्तिसमन्विता आसीरन, ये वा ऋषभादितीर्थकरतीर्थश्रमणाः प्रधानसूत्रविरचनशक्तिसमन्विताः ये वा प्रत्येकबुद्धास्तैर्विरचितानि प्रकीर्णकानीति ४, उक्तं चैतदर्थसंवादि श्रीनन्दिसूत्रश्रीमलयगिरिकृततद्वृत्योः तत्र सूत्रं यथा - अहवा तं समासओ दुविहं पं० तं० अंगपविट्टं अंगबाहिरं च 1 से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पं० तं० आवस्सयं च आवस्सयवइरित्तं च से किं तं आवस्सयं २ छव्विहं पं० तं० सामाइयं १ चउवीसत्थओ २ वंदणयं ३ पडिक्कमणं ४ काउस्सग्गो ५ पच्चक्खाणं ६ से तं आवस्सयं । से किं तं आवस्सयवइरित्तं २ दुविहं पं० तं० कालिअं उक्कालिअं च । से किं तं उक्कालिअं २ अणेगविहं
,
७
1