________________
गच्छाचारपइण्णयं सभगवदामन्त्रणश्रीगौतमप्रश्नवाक्यमनुक्तमपि ज्ञेयम् । प्रश्नमन्तरेण निर्वचनस्य प्रायोऽसम्भवादेवमुत्तरत्रापि, तत्र तत्र प्रश्नवाक्यं यथासम्भवि स्वयमेव वाच्यमिति । नन्विदं प्रकीर्णकं केन विरचितमिति ? उच्यते
'महानिसीहकप्पाओ, ववहाराओ तहेव य । साहुसाहुणिअट्ठाए गच्छायारं समुद्धिअं ।।१।।' इतीहैववक्ष्यमाणवचनादेवेदमवसीयते । यदुतेदं प्रकीर्णकं श्रीभद्रबाहुस्वामिपादविरचितग्रन्थादिभ्य उद्धृतत्वेन तदर्वाग्भाविना पूर्वान्तर्गतसूत्रार्थधार केण के नाप्याचार्येण विरचितमिति । यथा ज्योतिष्करण्डकप्रकीर्णकं वालभ्यवाचनानुगतेन पूर्वगतसूत्रार्थधारिणा केनाऽप्याचार्येण विरचितम् । उक्तं च श्रीमलयगिरिसूरिपादैस्तत्प्रथमगाथावृत्तौ 'अयमत्र पूर्वाचार्योपदर्शित उपोद्घातः-कोऽपि शिष्योऽल्पश्रुतः कश्चिदाचार्य पूर्वगतसूत्रार्थधारकं वालभ्य श्रुतसागरपारगतं शिरसा प्रणम्य विज्ञपयतिस्म, यथा-भगवन् इच्छामि युष्माकं श्रुतनिधीनामन्ते यथावस्थितं कालविभागं ज्ञातुमिति, तत एवमुक्ते आचार्य आह-शृणु वत्स ! तावदित्यादि तथा तद्वितीयप्राभृतवृत्तावपि सङ्ख्यास्थानविसदृशत्वमाश्रित्योक्तम्, 'यथाइह स्कन्दिलाचार्यप्रवृत्तौ दुःषमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनशत् । ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः सङ्घयोर्मेलापकोऽभवत् । तद्यथा-एको क्लभ्यां, एको मथुरायां, तत्र च सूत्रार्थसङ्घटने परस्परवाचनाभेदो जातः । विस्मृतयोर्हिसूत्रार्थयोः स्मृत्वा सङ्घटने भवत्यवश्यं वाचनाभेदो न काचिदनुपपत्तिः, तत्रानुयोगद्वारादिकमिदानी वर्तमानं माथुरवाचनानुगतं, ज्योतिष्करण्डक-सूत्रकर्त्ता चाचार्यो वालभ्यः, तत इहैदं संख्यास्थानप्रतिपादनं वालभ्यवाचनानुगतमिति नास्यानुयोगद्वारप्रतिपादितसङ्ख्यास्थानैः सह विसदृशत्वमुपलभ्य विचिकित्सितव्यमिति' । यथा वा नन्द्यध्ययनं देववाचकेन । उक्तंच श्रीमलयगिरिसूरिपादैरेव तद्वृत्तौ यथा-'तदेवमभीष्टदेवतास्तवादिसम्पादितसकलसौविहित्यो भगवान् दूषगणिपादोपसेवी पूर्वान्तर्गत