________________
संस्कृतेतरभाषासु गाथासंज्ञेति प्रथमगाथार्थः ||१||
इह हि साधुना इहपरलोकहितार्थं सदा सदाचारगच्छसंवासो विधेयः, असदाचारगच्छसंवासश्च परिहार्यः क्रमेण परमशुभाशुभफलत्वात् । तत्रापि अपरिकर्मितप्रदेशं चित्रकरणमिव सच्छिद्रप्रवहणं समुद्रतरणमिव, अपरिवर्जितापथ्यं तथ्यौषधकरणमिव, अव्याकरणाध्ययनमन्यशास्त्राध्ययनमिव, अपरिबद्धपीठं भित्तिचयनमिव, सधूलीकं लिम्पनमिव, अनम्भःसङ्घ कमलरोपणमिव, अलोचनं मुखमण्डनमिव अन्तर्गड्वेव अपरित्यक्तोन्मार्गगामिगच्छसगं सदाचारगच्छसंवसनम्, इत्युन्मार्गगामिगच्छसङ्गतिं परित्यज्यैव सन्मार्गगामिनि गच्छे संवसनीयमिति ज्ञापनार्थं प्रथममुन्मार्गगामिगच्छसंवासे परमापायफलं दर्शयति
1
अत्थेगे गोअमा ! पाणी, जे उम्मगपट्ठिए । गच्छंम्मि संवसित्ताणं, भमई भवपरंपरं ||२ ॥ सन्त्येके गौतम! प्राणिनः ये उन्मार्गप्रतिष्ठिते । गच्छे संवसित्वा भ्रमन्ति भवपरम्पराम् ॥२॥
गच्छाचारपइण्णयं
·
1
व्याख्या - हे गौतम ! सन्त्येके- केचन प्राणिनः सत्त्वाः, ये उन्मार्गप्रतिष्टिते-उन्मार्गगामिनि गच्छे संवस्य संवासं कृत्वा णमिति वाक्यालङ्कारे भवपरम्परां-संसारपरिपाटीं भ्रमन्ति, अत्र वचनव्यत्ययो दीर्घत्वं च प्राकृतत्वात् । एवमग्रेऽपि तत्र तत्र वचनादिव्यत्ययह्रस्वत्वदीर्घत्वविभक्तिलोपादिप्राकृतत्वादिनिबन्धनमनुक्तमपि स्वयमभ्यूह्यम् । असत्सङ्गो हि सतोऽपि शीलस्य विलयेन पातहेतुरेव, उच्यते चान्यत्रापि - 'यदि सत्सङ्गनिरतो, भविष्यसि भविष्यसि । अथासज्जनगोष्ठीषु, पतिष्यसि पतिष्यसि ।।१।।' इह च 'अत्थेगे गोअमा पाणी 'त्यादि सगौतमामन्त्रेण श्रीमन्महावीरनिर्वचनवा. क्योपलम्भात् । हे भदन्त ! किं सन्ति ते केचन प्राणिनः ? य उन्मार्गगामिनि - गच्छे संवस्य भवपरम्परां भ्रमन्ति इत्यादिरूपं यथासम्भवि