________________
गच्छाचारपइण्णयं गम्भीरत्वादिगुणैः समुद्रः श्रुतसमुद्रस्तस्मात्, यदि हि स्वरचितादेर्मयोद्धियते, तदा व्यभिचारशङ्कया नेदं प्रवृत्तिविषयः स्यात् । तदेवमस्या गाथायाः पूर्वार्द्धन मङ्गलमभिहितम्, उत्तरार्द्धन तु सविशेषणमभिधेयं मुख्यवृत्त्याऽभिहितम्, तदभिधाने च गौणवृत्त्या प्रयोजनं सम्बन्धश्चोक्तः, तथाहिअस्य द्विविधं प्रयोजनम्, अनन्तरं परम्परं च, पुनरेकैकं कतृश्रोत्रपेक्षया द्विधा, तत्र कर्तुरनन्तरप्रयोजनं सक्षेपतो विनेयानां गच्छाचाराधिगमकरणं, परम्परन्तु परोपकारद्वारेण कर्मक्षयानिर्वाणं, श्रोतृणां पुनरनन्तरं प्रकीर्णकस्य सङ्क्षिप्तत्वादल्पायासेन गच्छाचाराधिगमः, परम्परं तु निर्वाणमेवेतीदं च प्रयोजनमभिधेयाभिधानेन सामर्थ्यादभिहितम् । न हि पुरुषार्थानुपयोगिवस्तुनोऽभिधानाय सन्तः प्रवर्त्तन्ते, तत्त्वहानिप्रसङ्गात् । तथाऽस्य प्रकीर्णकस्येदं प्रयोजनमिति दर्शयता दर्शित एवास्योपायोपेय-भावलक्षण: सम्बन्धस्तर्कानुसारिणः प्रति, तथा हीदं प्रकीर्णकमुपायो वर्त्तते, उपायान्तरेण विवक्षिताधिगमकरणादीनामसिद्धिः, अत एवेदमेवाधिगमादिकरणमस्योपेयमिति । आह च ‘सम्बन्धः प्रोक्त एव स्यात्, एतस्यैतत् प्रयोजनम् । इत्युक्तेन तेन नो वाच्यो, भेदेनासौ प्रयोजनात् ।।१।। इति । तथा श्रुतसमुद्रादित्यनेन श्रद्धानुसारिणः प्रति गुरुपर्वक्रमलक्षणोऽपि सम्बन्धोऽभिहितः, तथा हि-प्रथमतो भगवता परमार्हन्त्यमहिम्ना विराजमानेन वर्द्धमानस्वामिना गच्छाचारः प्रतिपादितः, ततः सुधर्मस्वामिना द्वादशस्वङ्गेषु सूत्रतया निबद्धः, ततोऽप्यार्यभद्रबाहुस्वाम्यादिभिः कल्पादिषु समुद्धृतः, तेभ्योऽपि मन्दमेधसामवबोधाय सङ्क्षिप्यास्मिन् प्रकीर्णके समुद्धियते, तत एवं परम्परया सर्वज्ञमूलमिदं प्रकीर्णकमित्यवश्यमवदातधियामुपादेयमिति । गाथाछन्दः, तल्लक्षणं चेदम्-'लक्ष्मैतत् सप्तगणा, गोपेता भवति नेह विषमे जः । षष्ठोऽयं च न लघुर्वा, प्रथमेऽर्द्ध नियतमार्यायाः ।।१।। षष्ठे द्वितीयलात् परके ले मुखलाच्च स यतिपदनियमः । चरमेऽर्द्ध पञ्चमके तस्मादिह भवति षष्ठो लः ।।२।।' (वृत्तरत्नाकरे) आर्यैव