________________
गच्छाचारपइण्णयं व्याख्या-नत्वा-प्रणम्य कमित्याह-महावीरं, विशेषेण ईरयति क्षिपति काणीति वीरः, 'विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ।।१।।' इति लक्षणान्निरुक्ताद्वा वीरः, महांश्चासावितरवीरापेक्षया वीरश्च महावीरस्तम्, जन्ममहोत्सवसमये तनुशरीरोऽयं कथं जलप्राग्भारभारं सोडेति शक्रशङ्काशकुसमुद्धरणाय भगवता वामचरणागुष्ठनिपीडितसुमेरुशिखरप्रकम्पमानमहीतलोल्लासितसरित्पतिक्षोभशङ्कितब्रह्माण्डमाण्डोदरदर्शनप्रयुक्तावधिज्ञानज्ञातप्रभावातिशय विस्मितेन वास्तोष्पतिना व्यवस्थापितैवंविधनामकं चरमतीर्थाधिपतिम्, शेषजिनत्यागेन च महावीरग्रहणं प्रवर्त्तमानतीर्थाधिपत्वेन परमोपकारित्वात् । किम्भूतं ? त्रिदशेन्द्रनमस्यितम्, त्रिदशाः सुमनसस्तेषामिन्द्रास्त्रिदशेन्द्रास्तैर्नमस्यितस्तम्, तथा महाभाग-महान् भागो 'भागोरूपार्द्धके भाग्यैकदेशयोः' इति हेमवचनाद् भाग्यं पारमैश्वर्यादिप्राप्तिहेतुतीर्थकृन्नामकर्मोदयरूपं यस्यासौ महाभागस्तं, ततः किमित्याह-गच्छस्यसुविहितमुनिसमुदायस्याचारः-शिष्टजन-समाचरितः क्रियाकलापो गच्छाचारस्तम्, उद्धरामः-प्रकीर्णकरूपत्वेन पृथक्कुर्मो वयमिति शेषः, अनेन चास्याभिधे यमुक्तम्, ननु भद्र बाहु-स्वाम्यादि भिरे व गच्छाचारस्योद्धृतत्वात् किं तदुद्धरणेनेत्याशङ्क्याह-किञ्चित्-संक्षिप्तमेव, पूर्वाचार्यैर्हि प्रपञ्चतः स उद्धृतो, वयं तु मन्दमतिसत्त्वानुग्रहार्थं सक्षेपेण तमुद्धराम इत्यर्थः, अनेन च प्रकीर्णककरणविषयायाः स्वप्रवृत्तेः प्रयोजनमुक्तम्, यतःप्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्त्तते, तथा सङ्क्षिप्तप्रकीर्णकस्य सुखाध्येयत्वादिना विस्तरवद् ग्रन्थत्यागेन श्रोतारोऽत्र प्रवर्त्तिता भवन्ति । ननु श्रोतृजनप्रवर्तक-विशेषणकदम्बकोपेतमपीदं प्रकीर्णकमसर्वज्ञेनावीतरागेण च भवतोद्धियमाण-मविसंवादार्थिनां न प्रवृत्तिविषयो भविष्यति, असर्वज्ञवचने विसंवादा-शङ्काऽनिर्वृत्तेः, इत्याशङ्कमान आह-श्रुतसमुद्रात् श्रुतं-कल्पव्यवहारादिरूपं तदेव